मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् १३

संहिता

म॒ही यदि॑ धि॒षणा॑ शि॒श्नथे॒ धात्स॑द्यो॒वृधं॑ वि॒भ्वं१॒॑ रोद॑स्योः ।
गिरो॒ यस्मि॑न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा॑य॒ तवि॑षी॒रनु॑त्ताः ॥

पदपाठः

म॒ही । यदि॑ । धि॒षणा॑ । शि॒श्नथे॑ । धात् । स॒द्यः॒ऽवृध॑म् । वि॒ऽभ्व॑म् । रोद॑स्योः ।
गिरः॑ । यस्मि॑न् । अ॒न॒व॒द्याः । स॒म्ऽई॒चीः । विश्वाः॑ । इन्द्रा॑य । तवि॑षीः । अनु॑त्ताः ॥

सायणभाष्यम्

मही महती धिषणास्माभिः क्रियमाणेन्द्रविषया स्तुती रोदस्योः शिश्नथे द्यावापृथिव्योरन्योन्यविश्लेषाय सद्योवृधं तदानीमेव वर्धमानं विभ्वं विभुं तयोर्धारणसमर्थं साधनं यदि धात् अकरोत् ततस्तत्र वर्तमाने यस्मिन्निन्द्रेऽनवद्या दोशरहिता गिरः स्तुतिलक्शणा वाचः समीचीः सङ्गता भवन्ति । इन्द्रायेति विभक्तिव्यत्ययः । तादृशस्येन्द्रस्य विश्वास्तविषीः सर्वाणि बल्लन्यनुत्ता अपरप्रेषितानि स्वभावसिद्धान्येव ॥ धिषणा । ञिधृषा प्रागल्भ्ये । धृषेर्धिश च संज्ञायामिति क्युप्रत्ययः । धातोर्धिशादेशः । धृष्णोत्यनयेति धिषणा स्ततिः । प्रत्ययस्वरः । शिश्नथे । श्नथ ज् िंसार्थः । अस्मात्क्विप् । छन्दस्युभयथेति तस्य सार्वधातुकत्वाच्छप् । तस्य बहुलं छन्दसीति श्लुः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । धातुस्वरः । धात् । दधातेश्छान्दसे लुङि रूपम् । यदियोगादनिघातः । विभ्वम् । भवतेः क्विप् । छन्दस्युभयथेति यणादेशः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । अनुत्ताः । णुद प्रेरण इत्यस्य नञ्पूर्वस्य निष्ठायां नसत्तनिशत्तानुत्तेत्यादिना निपातनान्निष्ठातकारस्य नत्वाभावः । नञः स्वरः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः