मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् १५

संहिता

महि॒ क्षेत्रं॑ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत् ।
इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम् ॥

पदपाठः

महि॑ । क्षेत्र॑म् । पु॒रु । च॒न्द्रम् । वि॒वि॒द्वान् । आत् । इत् । सखि॑ऽभ्यः । च॒रथ॑म् । सम् । ऐ॒रत् ।
इन्द्रः॑ । नृऽभिः॑ । अ॒ज॒न॒त् । दीद्या॑नः । सा॒कम् । सूर्य॑म् । उ॒षस॑म् । गा॒तुम् । अ॒ग्निम् ॥

सायणभाष्यम्

योऽयमिन्द्रो महि महत् क्षेत्रं केदारादि पुरु प्रभूतं चन्द्रं हिरण्यं च विविद्वान् आर्थिभ्यः सखिभ्योऽस्मभ्यं लंभयन् । आदित् अनन्तरं चरथं चरात्मकं गवादिकं च समैरत् सम्यक् प्रैरयत् । दत्तवानित्यर्थः । दीद्यानो दीप्यमानः सोऽयमिन्द्रो नैभिर्नेतृभिः कर्मसहायभूतैर्मरुद्भिः साकं सहितः सन् सूर्यं कालस्य निर्वाहकमादित्यं उषसमुषः कालं गातुम् । गायन्ति स्तुवन्त्यस्यामिन्द्रादिदेवानिति गातुः पृघिवी । ताम् । अग्निमग्निहोत्रादिकर्मसाधनभूतमावहनीयादिलक्षणमग्निं जाजनत् । अजनयत् । पुरु चन्द्र । संहितायां ह्रस्राच्चन्द्रोत्तरपदे मन्त्र इति सुडागमः । तस्य श्चुत्वेन शकारः । पदकाले नास्ति सुडागमः पुरु । कुप्रत्ययस्वरः । चन्द्रम् । रक् । प्रत्ययस्वरः चरथं चर गत्यर्थः । अस्मादौणादिकोऽथप्रत्ययः । प्रत्ययस्वरः । ऐरत् । ईर गतावित्यस्य लङि आडजादीनामित्याडागमः । निघातः । अजनत् । जनेर्ण्यन्तस्य लङि रूपम् । बहुलमन्यत्रापि संज्ञाच्छन्दसोरिति णिलुक् । गातुम् । गृ शब्दे । गापायाहिभ्य इति तुप्रत्ययः । प्रत्ययस्वरः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः