मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३१, ऋक् १९

संहिता

तम॑ङ्गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं॑ कृणोमि॒ सन्य॑से पुरा॒जाम् ।
द्रुहो॒ वि या॑हि बहु॒ला अदे॑वी॒ः स्व॑श्च नो मघवन्त्सा॒तये॑ धाः ॥

पदपाठः

तम् । अ॒ङ्गि॒र॒स्वत् । नम॑सा । स॒प॒र्यन् । नव्य॑म् । कृ॒णो॒मि॒ । सन्य॑से । पु॒रा॒ऽजाम् ।
द्रुहः॑ । वि । या॒हि॒ । ब॒हु॒लाः । अदे॑वीः । स्व१॒॑रिति॑ स्वः॑ । च॒ । नः॒ । म॒घ॒ऽव॒न् । सा॒तये॑ । धाः॒ ॥

सायणभाष्यम्

हे इन्द्र अङ्गिरस्वत् अङ्गिरस इव नमसा स्तोत्रेण सपर्यन् पूजयन् विश्वामित्रोऽहं तं तादृशमहिमोपेतं पुराजां पुरातनं त्वां सन्यसे सम्भजनाय नव्यं कृणोमि । स्तोतव्यतयाभिनवं करोमि । अदेवीस्तमोरूपत्वेनाद्योतमानान्बहुला बहून् द्रुहो द्रोग्धॄन् शत्रुभूतान् राक्षसान् वि याहि । विशेषेण मृतिं प्रपय । हे मघवन्निन्द्र नोऽस्मभ्यं स्वः स्वं धनं च सातये सम्भजनार्थं धाः । धेहि । अङ्गिरस इव । तेन तुल्यमिति वतिप्रत्ययः । नभोऽङ्गिरोमनुषां वत्युपसंख्यानमिति भसंज्ञायां सकारस्य रुत्वाभावः । सपर्यन् । सपरशब्दः कण्ड्वादिः । नव्यं णु स्तुतावित्यस्मादचो यदिति यत्प्रत्ययः । धातोस्तन्निमित्तस्येति वान्तादेशः । यतोऽनाव इत्याद्युदात्तत्वम् । कृणोमि । कृवेर्लटि रूपम् । सन्यसे । सनतेर्भावे क्विप् । यसु प्रयत्ने । अस्मात् क्विप् । सनः सम्भजनस्य यसे यत्नाय । सम्भजनार्थमित्यर्थः । पुराजाम् । जनेर्विट्याते े रूपम् । याहि । यातेर्लोटि रूपम् । स्वः । स्वरादिनिपातमव्ययमित्यव्ययसंज्ञायामव्ययादाप्सुप इति सपो लुक् । सातये । षण सम्भक्तौ । भावे क्तिन् । जनसनेत्यादिना आत्वम् । ऊतियूतीत्यादिना निपातनादुदात्तः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः