मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् १

संहिता

इन्द्र॒ सोमं॑ सोमपते॒ पिबे॒मं माध्यं॑दिनं॒ सव॑नं॒ चारु॒ यत्ते॑ ।
प्र॒प्रुथ्या॒ शिप्रे॑ मघवन्नृजीषिन्वि॒मुच्या॒ हरी॑ इ॒ह मा॑दयस्व ॥

पदपाठः

इन्द्र॑ । सोम॑म् । सो॒म॒ऽप॒ते॒ । पिब॑ । इ॒मम् । माध्य॑न्दिनम् । सव॑नम् । चारु॑ । यत् । ते॒ ।
प्र॒ऽप्रुथ्य॑ । शिप्रे॒ इति॑ । म॒घ॒ऽव॒न् । ऋ॒जी॒षि॒न् । वि॒ऽमुच्य॑ । हरी॒ इति॑ । इ॒ह । मा॒द॒य॒स्व॒ ॥

सायणभाष्यम्

विश्वामित्रो ब्रूते । सोमपते सोमस्याधिपते हे इन्द्र इममस्माभिर्माध्यन्दिने सवने क्रियमाणं सोमं सोमरसं पिब । यद्यस्मात्ते त्वदर्थं क्रियमाणं माध्यन्दिनं मन्ध्यन्दिनसम्बन्धि सवनं निश्केवल्याख्यं शस्त्रं चारु रमणीयं वर्तते । मघवन् धनवन् ऋजीषिन् । ऋजीषब्देन गतसारं सोमद्रव्यमुच्यते । तद्वन् हे इन्द्र हरी रथे योजितावशौ रथाद्विमुच्य शिप्रे हनू प्रप्रुथ्यात्रत्येन ग्रासेन पूरयित्वेह देवयजनदेशे मादयस्व । तावश्वौ हर्षय ॥ प्रप्रुथ्य । पोथृ वर्याप्तावित्यस्य ल्यपि रूपम् । द्रस्वश्छान्दसः । लित्स्वरः । ऋजीषिन् । अर्ज षर्ज आर्जन इत्यस्मादर्जेश्च ऋजि च । उ. ४-२८ । इतीषन्प्रत्यय ऋजि इत्यादेशश्च धातोः । आर्ज्यत इत्यृजीशम् । तदस्यास्तीतीनिप्रत्ययः । आमन्त्रितत्वान्निघातः । मादयस्व । मदिस्तुत्यादिषु । हेतुमण्णिच् । निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः