मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् २

संहिता

गवा॑शिरं म॒न्थिन॑मिन्द्र शु॒क्रं पिबा॒ सोमं॑ ररि॒मा ते॒ मदा॑य ।
ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा॑ रु॒द्रैस्तृ॒पदा वृ॑षस्व ॥

पदपाठः

गोऽआ॑शिरम् । म॒न्थिन॑म् । इ॒न्द्र॒ । शु॒क्रम् । पिब॑ । सोम॑म् । र॒रि॒म । ते॒ । मदा॑य ।
ब्र॒ह्म॒ऽकृता॑ । मारु॑तेन । ग॒णेन॑ । स॒ऽजोषाः॑ । रु॒द्रैः । तृ॒पत् । आ । वृ॒ष॒स्व॒ ॥

सायणभाष्यम्

हे इन्द्र गवाशिरं वव्यस्य पयस आशीर्मिश्रणं यस्मिन् तं सोमम् । अपि च मन्थिनं मन्थसंयुक्तं शुक्रमभिनवं यद्वा शुक्रामन्थिग्रहे वर्तमानम् । एवं त्रिषु सवनेषु वर्तमानमिमं सोमं पिब । ते तव मदाय हर्षाय ररिम । तं सोमं वयं प्रयच्छामः । मारुतेन । मरुतां गणो मारुतः । स च ब्रह्मकृत् । ब्रह्म स्तोत्रं करोतीति ब्रह्मकृत् । इन्द्रस्तोत्रं कुर्वाणेन मारुतेन गणेन रुद्रैरेकादशसंख्याकै रुद्रैश्च सजोषाः सङ्गतस्त्वं तृपत् सोमपानेन तृप्यन् आ वृषस्व । तमिमं सर्वतो जठरे सिञ्च । धारय ॥ गवाशिरं ॥ श्रीणातेराङ् पूर्वत्क्विप्यपस्पृधेत्यामानृचुरित्यादिना निपातनादाशिरादेशः । बहुव्रीहौ पुर्वपदप्रकृतिस्वरः । पिबा । द्व्यचोऽतस्तिङ इति संहितायां दीर्घः । ररिम । रातेश्छान्दसे वर्तमाने लिटि रूपम् । असमानवाक्यत्वान्निघाताभावः । आगमा अनुदात्ता इतीटोऽनुदात्तत्वात्प्रत्ययस्वरः । तृपत् । तृप प्रीणने । तुदादिः । आगमानुशासनस्यानित्यत्वान्नुमभावः । वृषस्व । वृषु सेचने । व्यत्ययेन शः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः