मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् ३

संहिता

ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च॑न्त इन्द्र म॒रुत॑स्त॒ ओजः॑ ।
माध्यं॑दिने॒ सव॑ने वज्रहस्त॒ पिबा॑ रु॒द्रेभि॒ः सग॑णः सुशिप्र ॥

पदपाठः

ये । ते॒ । शुष्म॑म् । ये । तवि॑षीम् । अव॑र्धन् । अर्च॑न्तः । इ॒न्द्र॒ । म॒रुतः॑ । ते॒ । ओजः॑ ।
माध्य॑न्दिने । सव॑ने । व॒ज्र॒ऽह॒स्त॒ । पिब॑ । रु॒द्रेभिः॑ । सऽग॑णः । सु॒ऽशि॒प्र॒ ॥

सायणभाष्यम्

हे इन्द्र ये मरुतस्ते तव शुष्मं शत्रूणां शोषकं तेजो ये च मरुतस्तविषीं बलं चावर्धयन् युद्ध सहकारितयावर्धयन् ते मरुतोऽर्चन्तस्त्वांस्तुवन्तः सन्तस्ते तवौजो युद्धसामर्थ्यमवर्धयुअन् । वज्रहस्त वज्रयुक्तौ हस्तौ यस्येति तादृश सुसिप्र शोभनहनो । शिप्रे हनू नासिके वेति यास्कः । हे इन्द्र रुद्रेभिः । रोदयन्ति शत्रूनिति रुद्रा मरुतः । तैः सगण स्त्वं माध्युअन्दिने सवने सोमं पिब ॥ अवर्धन् । वृधु वर्धने । अन्तर्भावितण्यर्थः । यद्वृत्तयोगादनिघातः । माध्यन्दिने । उत्सादित्वादञ् । ञित्वादाद्युदात्तः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः