मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् ४

संहिता

त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इन्द्र॑स्य॒ शर्धो॑ म॒रुतो॒ य आस॑न् ।
येभि॑र्वृ॒त्रस्ये॑षि॒तो वि॒वेदा॑म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ॥

पदपाठः

ते । इत् । नु । अ॒स्य॒ । मधु॑ऽमत् । वि॒वि॒प्रे॒ । इन्द्र॑स्य । शर्धः॑ । म॒रुतः॑ । ये । आस॑न् ।
येभिः॑ । वृ॒त्रस्य॑ । इ॒षि॒तः । वि॒वेद॑ । अ॒म॒र्मणः॑ । मन्य॑मानस्य । मर्म॑ ॥

सायणभाष्यम्

ये मरुत इन्द्रस्य शर्धो बलभुता आसन् त इत् त एव मरुतोऽस्य । द्वितीयार्थे षष्ठी । इममिन्द्रं मधुमत् । तव सहाया वयस्माहे त्वं हुद्धमभिगच्छेति माधुर्योपेतं वाक्यं यथा भवति तथा विविप्रे नु । क्षिप्रं प्रैरयन् । येभिर्यैर्युद्धसहयैर्मरुद्भिरिषितः प्रेरित इन्द्रोऽमर्मणः परैरविदितमर्मस्थानस्यात एव मन्यमानस्य न कोऽपि मम हन्तेत्यभिमन्यमानस्य वृत्रस्यासुरस्य मर्म यस्मिन् स्थाने प्रहृतौ सत्यां स मरिश्यति तादृशं स्थानं विवेद । अज्ञासीत् ॥ विविप्रे । विपक्शेपण इत्यस्य लिटि व्यत्ययेनात्मने पदम् । इरेच इरयो र इति रे इत्यादेशः । निघातः । आसन् । अस भुवीत्यस्य लङि रूपम् । यद्वृत्तयोगान्निघाताभावः । विवेद । विदज्ञान इत्यस्य लिटि रूपम् । लित्स्वरः । मर्म । मृङ् प्राणत्याग इत्यस्मादौणादिको मनिन् । नित्स्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः