मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् ५

संहिता

म॒नु॒ष्वदि॑न्द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या॑य ।
स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो अर्णा॑ सिसर्षि ॥

पदपाठः

म॒नु॒ष्वत् । इ॒न्द्र॒ । सव॑नम् । जु॒षा॒णः । पिब॑ । सोम॑म् । शश्व॑ते । वी॒र्या॑य ।
सः । आ । व॒वृ॒त्स्व॒ । ह॒रि॒ऽअ॒श्व॒ । य॒ज्ञैः । स॒र॒ण्युऽभिः॑ । अ॒पः । अर्णा॑ । सि॒स॒र्षि॒ ॥

सायणभाष्यम्

हे इन्द्र मनुष्वत् मनोर्यज्ञमिव ममेदं सवनं यज्ञं जुषाभिः सेवमानस्त्वं शश्वते शाश्वताय वीर्याय परपरिभवलक्षणाय सामर्थ्यायेमं सोमं पिब । हे हर्यश्व स तादृशस्त्वं यज्ञैर्यजनीयैर्मरुद्भिः साकमाववृत्स्व । आगच्छ । किञ्च सरण्युभिरेकश्रुतिमन्मन्त्रानात्म इच्छद्भिः यद्वा सरण्युभिः सरणशीलैर्मरुद्भिः सहितस्त्वमओप्ऽन्तरिक्षस्थितान्युदकानि अर्णा पार्थिवान्युदकानि सिसर्षि । प्रपय । यद्वा अपः । पञ्चम्यन्तमेतत्पदम् । अपो व्याप्तादन्तरिक्षाअत्सकाशादर्णांसि प्रापय ॥ ववृत्स्व । वृतु वर्तने । व्यत्ययेन श्लपः श्लुः । लोटि रूपम् । सरण्युभिः रण शब्दार्थः । क्विप् । समानो रणो ध्वनिर्येशां ते सरणा मन्त्राः । तानिच्छन्तः । सुपः क्यच् । क्यादित्युप्रत्ययः । यद्वा सृगतौ । सृयुवचिभ्योऽन्युजागूजक्नुचः । उ. ३-८१ । इत्यन्युच् प्रत्ययः । रषाभ्याम् । पा. ८-४-१ । इति णत्वम् । चित्त्वादन्तोदात्तः । अपः । आप्लृव्याप्तौ । आप्नोतेः क्विप् ह्रस्वश्चेति क्विप् धातोर्ह्रस्वश्च । सावेकाच इति विभक्तेरुदात्तत्वम् । सिसर्षि । सृगतौ । छान्दसो जुहोत्यादिः । बहुलं छन्दसीत्यभ्यासस्येत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः