मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् ७

संहिता

यजा॑म॒ इन्नम॑सा वृ॒द्धमिन्द्रं॑ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा॑नम् ।
यस्य॑ प्रि॒ये म॒मतु॑र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं॑ म॒माते॑ ॥

पदपाठः

यजा॑मः । इत् । नम॑सा । वृ॒द्धम् । इन्द्र॑म् । बृ॒हन्त॑म् । ऋ॒ष्वम् । अ॒जर॑म् । युवा॑नम् ।
यस्य॑ । प्रि॒ये इति॑ । म॒मतुः॑ । य॒ज्ञिय॑स्य । न । रोद॑सी॒ इति॑ । म॒हि॒मान॑म् । म॒माते॒ इति॑ ॥

सायणभाष्यम्

नमसा हविर्लक्षणेनान्नेन वृद्धं प्रवृद्धं अत एव बृहन्तं महान्तमृष्वम् । ऋष्यते गम्यते स्तुतिलक्शनैर्मन्त्रैरिति ऋष्वं स्तोतव्यम् । अजरं जरारहितं अत एव युवानं नित्यतरुणं एवंविधमिन्द्रं यजाम इत् । कुशिका वयं यज्ञ सिद्ध्यर्थं स्तुतिवाक्यैः पूजयामः । प्रिये प्रियतमे अपरिमिते रोदसी द्यावापृथिवौ यज्ञियस्य यज्ञार्हस्य यस्येन्द्रस्य तव महिमानं वैभवं न ममतुः । न परिच्छेत्तुं शक्नुतः । न ममाते इति द्वितीयं क्रियापदमादरार्थं ॥ यजामः । यजेर्लटि रूपम् । ऋष्वम् । ऋषी गतौ । सर्वनिघृशऋश्वेत्यादिना वप्रत्ययान्तो निपातितः । प्रत्ययस्वरः । प्रिये । ईदूदेवेति प्रगृहुअसंज्ञा । ममतुः । मा मान इत्यस्य लिट्युतुसि रूपम् । यद्वृत्तयोगादनिघातः । प्रत्ययस्वरः । महिमानं महि शब्दात्तस्य भाव इत्यर्थे पृध्वादिश्वादिमनिच् । चित्स्वरः । ममाते । माङ् माने शब्दे चेत्यस्य लिट्यातामि रूपं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०