मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् ८

संहिता

इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे॑ ।
दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं॑ सु॒दंसा॑ः ॥

पदपाठः

इन्द्र॑स्य । कर्म॑ । सुऽकृ॑ता । पु॒रूणि॑ । व्र॒तानि॑ । दे॒वाः । न । मि॒न॒न्ति॒ । विश्वे॑ ।
दा॒धार॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ज॒जान॑ । सूर्य॑म् । उ॒षस॑म् । सु॒ऽदंसाः॑ ॥

सायणभाष्यम्

विश्वे सर्वे देवा इन्द्रस्य तव कर्म कर्माणि सुकृता सुकृतानि सुष्ठु निर्मितानि पृथिवादीनि पुरूणि बहूनि व्रतानि यज्ञानि च न मिनन्ति । एतानि सर्वाणि तव कर्माणि न हिम्सन्ति । किन्त्वाद्रियन्ते । किञ्च योऽयमिन्द्रः पृथिवीं भूलोकं द्यां द्युलोकं उत अपि चेमामिममन्तरिक्षलोकं च एतांस्त्रीन् लोकान् दधार । सुदंसाः सुकर्मा शोभनकर्मा सन्निन्द्रः सूर्यं लोकप्रकाशकमादित्यमुषमग्निहोत्रादिकर्मनिर्वाहकमुशःकालं जजान । उत्पादयामास ॥ इन्द्रस्य कर्म सुकृता पुरूणीत्येतत्पदकदम्बकमेको द्वे वसुमती इत्यस्मिन्वर्गे । ऋग्वे.३-२-३ । पठितम् । अत्रापि तदेव पठ्यते किमिति पदकाले नोत्सृज्यत इति चेन्न । वाक्यभेदात् । तत्रेन्द्रस्य कर्म सुकृता पुरूणीत्येकं वाक्यं अत्र तु कर्म सुकृतेत्येकं वाक्यं पुरूणि व्रतानीत्यपरम् । किञ्च तत्रत्यं पदकदम्बकं प्रथमान्तं अत्रत्यं द्वितीयान्तम् । अतो वाक्यभेदाद्विभक्तिभेदाच्च पदकाले नोत्सृज्यते ॥ मिनन्ति । मीञ् हिंसायामित्यस्य लटि रूपम् । निघातः । दधार । धृञ् धारण इत्यस्य लिटि रूपम् । तुजादित्वादभ्यासस्य दीर्घः । लित्स्वरः । जजान । जन जनन इत्यस्यान्तर्भावितण्यर्थस्य लिटि रूपम् । लित्स्वरः । सुदंसाः । सोर्मनसी इत्युत्तरपदाद्युदात्तत्वं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०