त्वं स॒द्यो अ॑पिबो जा॒त इ॑न्द्र॒ मदा॑य॒ सोमं॑ पर॒मे व्यो॑मन् ।
यद्ध॒ द्यावा॑पृथि॒वी आवि॑वेशी॒रथा॑भवः पू॒र्व्यः का॒रुधा॑याः ॥
त्वम् । स॒द्यः । अ॒पि॒बः॒ । जा॒तः । इ॒न्द्र॒ । मदा॑य । सोम॑म् । प॒र॒मे । विऽओ॑मन् ।
यत् । ह॒ । द्यावा॑पृथि॒वी इति॑ । आ । अवि॑वेशीः । अथ॑ । अ॒भ॒वः॒ । पू॒र्व्यः । का॒रुऽधा॑याः ॥
सद्यस्क्रीनाम्न्येकाहे निष्केवल्यशस्त्रे त्वं सद्यो अपिब इति सूक्तमुखीया । सूत्रितं च । त्वं सद्यो अपिबो जात इन्द्रानु त्वाहिघ्ने अध देव देवाः । आ. ९-५ । इति ॥
हे इन्द्र सद्यस्तदानीमेव जातः परमे व्योमन् उत्तमे स्थाने स्थितस्त्वं मुदाय हर्षाय सोममपिबः । यद्यदा त्वं द्यावापृथिवी द्यावापृथिव्यावाविव्वेशीर्ह । आ सम्मताद्भृशं प्रविष्टोऽसि खलु । अथानन्तरं पूर्व्यः पुरातनः सन् कारुधायाः कर्मणां विधाताभवः खलु ॥ व्योमन् । अव रक्षणगत्यादिषु । विपूर्वस्यावतेर्नामन् सीमन्नित्यादिना मनिन् । ज्वरत्वरेत्यादिना ऊट् । विशेशेण्ॐअ व्याप्तिर्यस्य तत् । सुपां सुलुगित्यादिना सुपो लुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः । सिप इकार लोपः । यद्योगादनिघातः । कारुधायाः । कारुः । करोतेः क्रुवापाजिमिस्वदिसाध्यतूभ्य उण्प्रत्ययः । णित्त्वाद्वृद्धिः । दधातेर्वहिहाधाञ्छ्यश्छन्दसीत्यसुन् । णिदित्यनुवृत्तेरातो युक् छिण् कृतोरिति युगागमः । समासे गतिकारकयोरपि पूर्वपप्रकृतिस्वरत्वं चेति सूत्रात्पूर्वपदप्रकृतिस्वरः ॥ १० ॥