मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् १२

संहिता

य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो॑मो मि॒येधः॑ ।
य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञिय॒ः सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ॥

पदपाठः

य॒ज्ञः । हि । ते॒ । इ॒न्द्र॒ । वर्ध॑नः । भूत् । उ॒त । प्रि॒यः । सु॒तऽसो॑मः । मि॒येधः॑ ।
य॒ज्ञेन॑ । य॒ज्ञम् । अ॒व॒ । य॒ज्ञियः॑ । सन् । य॒ज्ञः । ते॒ । वज्र॑म् । अ॒हि॒ऽहत्ये॑ । आ॒व॒त् ॥

सायणभाष्यम्

हे इन्द्र अस्मदीयो यज्ञस्ते तव वर्धनो हविष्प्रदानेन वर्धयिता भूद्धि । भवति खलु । उत अपि च सुतसोमोऽभिषुतसोमवान्मियेधो यज्ञस्तव प्रियः । स त्वं यज्ञियो यज्ञार्हः सन् यज्ञं यज्ञस्य कर्तारं यजमानं यज्ञेनानुष्ठीयमानेनानेनाव । फलप्रदानेन रक्ष । किञ्चायं यज्ञस्ते तव वज्रमहिहत्ये वृत्रहनने कर्मणावत् । रक्षतु ॥ वर्धनः । वृधु वर्धन इत्यस्य ण्यन्तस्य नन्द्यादित्वात् ल्युप्रत्ययः । लित्स्वरः भूत् । हियोगादनिघातः । अव । अवतेरोटि रूपम् । निघातः सन् । असेः शतरि रूपम् । प्रत्ययस्वरः । अहिहत्ये । हन हिंसागत्योरित्यस्य भावे हनस्त चेति क्यप् तकारश्चान्तादेशः । कृदुत्तरपदस्वरः । आवत् । अवतेश्छान्दसे लङि रूपम् । निघातः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११