मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् १३

संहिता

य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे अ॒र्वागैनं॑ सु॒म्नाय॒ नव्य॑से ववृत्याम् ।
यः स्तोमे॑भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ॥

पदपाठः

य॒ज्ञेन॑ । इन्द्र॑म् । अव॑सा । आ । च॒क्रे॒ । अ॒र्वाक् । आ । ए॒न॒म् । सु॒म्नाय॑ । नव्य॑से । व॒वृ॒त्या॒म् ।
यः । स्तोमे॑भिः । व॒वृ॒धे । पू॒र्व्येभिः॑ । यः । म॒ध्य॒मेभिः॑ । उ॒त । नूत॑नेभिः ॥

सायणभाष्यम्

हे इन्द्र सर्व यजमानोऽवसा स्वरक्षकेण यज्ञेनेन्द्रं त्वामर्वागाचक्रे । हविश्प्रदानेनाभिमुखं करोति । तथाहं नव्यसे नवतराय सुम्नाय धनायैनं त्वामा ववृत्याम् । यज्ञेनावृत्तं मदभिमुखं कुर्याम् । कीदृशस्त्वं यः पूर्व्येभिः पुरातनैः स्तोमेभिः स्तोत्रैर्ववृधे तथा य इन्द्रो मध्यमेर्भिर्मध्ये भवैः स्तोत्रैरुतापि च नूतनेभिरस्माभिः क्रियमाणैरधुब्नातनैः स्तोत्रेर्वर्धते ॥ चक्रे । करोतेर्लिटि रूपम् । नव्यसे । नवशब्दादीयसुनि भसंज्ञायामकारलोप ईकारलोपश्छान्दसः । नित्त्वादाद्युदात्तः । ववृत्यां वृतु वर्तने लिङि बहुलं छन्दसीति शपः श्लुः । व्यत्ययेन परस्मैपदं निघातः । ववृधे वृधु वर्धन इत्यस्य लिटि रूपम् । प्रत्ययस्वरः । मध्यमेभिः । मध्यशब्दात् शैषिकार्थे मध्यान्मः । पा. ४-३-८ । इति मप्रत्ययः । प्रत्ययस्वरः । नूतनेभिः । नवशब्दस्य त्नप्तनन्खाश्च प्रत्ययावक्तव्यानू इत्यादेशश्चेति तनन्प्रत्ययो नू इत्यादेशश्च ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११