मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् १४

संहिता

वि॒वेष॒ यन्मा॑ धि॒षणा॑ ज॒जान॒ स्तवै॑ पु॒रा पार्या॒दिन्द्र॒मह्न॑ः ।
अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा॑ नो ना॒वेव॒ यान्त॑मु॒भये॑ हवन्ते ॥

पदपाठः

वि॒वेष॑ । यत् । मा॒ । धि॒षणा॑ । ज॒जान॑ । स्तवै॑ । पु॒रा । पार्या॑त् । इन्द्र॑म् । अह्नः॑ ।
अंह॑सः । यत्र॑ । पी॒पर॑त् । यथा॑ । नः॒ । ना॒वाऽइ॑व । यान्त॑म् । उ॒भये॑ । ह॒व॒न्ते॒ ॥

सायणभाष्यम्

यद्यदा धिशणेन्द्रं स्तवानीति मदीया बुद्धिर्मां विवेष व्याप्नोत् तदाहं स्तोत्रं जजान । करोमि । बद्धेः स्वरूपं दर्शयति । अहं पार्यात्पारे भवादतिदूरवर्तिनो विघ्नकारिणोऽह्नः पुरा पूर्वं स्तवै । स्तवानि यत्र यस्यां धिषणायामेव जातायां सत्यां स इन्द्रो नोऽस्मानंहसः पापरूपाद्दारिद्र्याद्यथा पीपरत् यथा पारं नयेत् तथास्मदुभयपार्श्ववर्तिधनार्थिनो जना हवन्ते । अह्वयन्ति । तत्र दृष्टान्तः । नावेव यान्तम् । यथा नद्यादिषु नौकाया यान्तं गच्छन्तं पुरुषमुभय उभयकूलवर्तिनो जना हवन्ते । आह्वयन्ति । तद्वत् ॥ विवेश । विष्लृ व्याप्तावित्यस्य लिटि णलि रूपम् । लित्स्वरः । जजान । जन जनन इत्यस्य लिट्युत्तमे णलि रूपम् । वाक्यभेदादनिघातः । अंहसः । अम गत्यादिशु । अमेर्हुक् च । उ. ४-२१२ । इत्यसुन्प्रत्ययो हुगागमश्च । नित्स्वरः । पीपरत् । पॄ पालन पूरणयोरित्यस्य लुङि चङि ह्रस्वाभ्यासेत्वदीर्घगुणाः । यथायोगादनिघातः । लित्स्वरः । नावेव । नुद प्रेरण इत्यस्माद्ग्लानुदिभ्यां डौः । उ. २-६४ । इति डौ प्रत्ययः । नुद्युत इति नौ प्लवः । सावेकाच इति तृतीयाया उदात्तत्वम् । इवेन नित्यसमासो विभक्त्य लोप इत्यादि । उभये । उभ शब्दात्परस्य तयप उभादुदात्तो नित्यम् । पा.५-२-४४ । इत्ययजादेशः । वचनसामर्थ्यादादेरुदात्तत्वम् । हवन्ते । ह्वयतेर्लटि रूपं ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११