मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३२, ऋक् १६

संहिता

न त्वा॑ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑य॒ः परि॒ षन्तो॑ वरन्त ।
इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ॥

पदपाठः

न । त्वा॒ । ग॒भी॒रः । पु॒रु॒ऽहू॒त॒ । सिन्धुः॑ । न । अद्र॑यः । परि॑ । सन्तः॑ । व॒र॒न्त॒ ।
इ॒त्था । सखि॑ऽभ्यः । इ॒षि॒तः । यत् । इ॒न्द्र॒ । आ । दृ॒ळ्हम् । चि॒त् । अरु॑जः । गव्य॑म् । ऊ॒र्वम् ॥

सायणभाष्यम्

हे पुरुहूतेन्द्र गभीरो गंभीरः सिन्धुः समुद्रस्त्वा त्वां न वारयति । ततः परि परितो वर्तमानाः सन्तोऽद्रयः शैलास्त्वां न वरन्त । न वारयन्ति । किन्तु त्वामनुसृत्य वर्तन्ते । यद्यस्मादित्थेत्थमनेन प्रकारेण सखिभ्यः सखिभिर्देवैरिषितः प्रार्थितस्त्वं दृळ्हं चिदतिप्रबलमपि गव्यं गवि भवमवटे वर्तमानमूर्वमूर्वानलमारुजः । सम्यगभांक्षीः । गभीरः गाध्र प्रतिष्ठालोप्सयोर्ग्रन्थे च । अस्मादीरच् प्रत्ययः धकारस्य भकार आकारस्य ह्रस्वश्च गभीर गम्भीरौ । उ. ४-३५ । इत्यनेन नोपात्यते । चित्स्वरः सिन्धुः स्यन्दू प्रस्रवणे । स्यन्देः सम्प्रसारणं धश्चेत्युप्रत्ययः । सम्प्रसारणं दकारस्य धकारः । नितित्यनुवृत्तेराद्युदात्तः । परि षन्तः । सन्तः । अस्तेः शतरि रूपं उपसर्गप्रादुर्भ्यामस्तिर्यच् पर इति षत्वम् । केचित्परेः क्रियान्वयमिच्छन्ति । तदा शत्वमनुपपन्नं परि निपातस्वरः । सन्तः प्रत्ययस्वरः । वरन्त । वृ ञ् वरने । भौवादिकः लङि रूपं निघातः अरुजः । रुजो भङ्ग इत्यस्य लङि रूपम् । गव्यम् । गोर्विकार इत्यर्थे गोपयसोर्यदिति यत् । यतोऽनाने इत्याद्युदात्तत्वं ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११