मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् ४

संहिता

ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं॑ दे॒वकृ॑तं॒ चर॑न्तीः ।
न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो॑ न॒द्यो॑ जोहवीति ॥

पदपाठः

ए॒ना । व॒यम् । पय॑सा । पिन्व॑मानाः । अनु॑ । योनि॑म् । दे॒वऽकृ॑तम् । चर॑न्तीः ।
न । वर्त॑वे । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । कि॒म्ऽयुः । विप्रः॑ । न॒द्यः॑ । जो॒ह॒वी॒ति॒ ॥

सायणभाष्यम्

एवं स्तुते नदौ विश्वामित्रं प्रत्यूचतुः एनैनेन पयसा पिन्वमानाः सन्तर्पयन्त्यो देवकृतं देवेनेन्द्रेण कृतं सन्दिष्टं योनिं स्थानं समुद्रमनु लक्षीकृत्य चरन्तीर्गच्छन्त्यो वयमास्मदे द्वयोर्बहुवचनं पूजार्थं तासामस्माकं स्वर्गतक्तः सर्गे गमने प्रवृत्तः प्रसव उद्योगो न वर्त्तवे । निवर्तनाय न भवति । किंयुः किमिच्छन्नसौ विप्र् ब्राह्मणो नद्यो नदीरस्मान् जोडवीति । भृशमाह्वयति ॥ एना । इदंशब्दस्य तृतीयाया एनादेशः । सुपां सुलुगिति तृतीयाया आजादेशः । ऊडिदमिति विभक्तेरुदात्तत्वम् । पिन्वमानाः । पिवि सेचने । देवकृतम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । वर्त्तवे । वृतु वर्तने । तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । सर्गतक्तः । क्ते चेति पुर्वपदप्रकृतिस्वरः । किंयुः । किमिच्छन् । क्यचि मान्ताव्ययप्रतिषेधः । पा. ३-१-८-१ । इति छान्दसत्वादत्र प्रतिषेधो न भवतीति क्यच् । क्याच्छन्दसीत्युप्रत्ययः । प्रत्ययस्वरः । नद्यः । छान्दसो यणादेशः । जोहवीति । ह्वयो यङ् लुक्यभ्यस्तस्य चेति सम्प्रसारणे कृते गुणो यङ् लुकोरित्यभ्यासस्य गुणः । यङो वेतीडागमः । गुणः । निघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२