मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् ५

संहिता

रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता॑वरी॒रुप॑ मुहू॒र्तमेवै॑ः ।
प्र सिन्धु॒मच्छा॑ बृह॒ती म॑नी॒षाव॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ॥

पदपाठः

रम॑ध्वम् । मे॒ । वच॑से । सो॒म्याय॑ । ऋत॑ऽवरीः । उप॑ । मु॒हू॒र्तम् । एवैः॑ ।
प्र । सिन्धु॑म् । अच्छ॑ । बृ॒ह॒ती । म॒नी॒षा । अ॒व॒स्युः । अ॒ह्वे॒ । कु॒शि॒कस्य॑ । सू॒नुः ॥

सायणभाष्यम्

विश्वामित्रो नदीः प्रति ब्रूते । ऋतावरीः । ऋतमुदकम् । तद्वत्यो हे नद्यो यूयं मे विश्वामित्रस्य मम सोम्याय । उत्तीर्याहं सोमं सम्पादयामीत्येवं सोमसंपादिने । वचसे तदर्थमेवैः । पञ्चम्यर्थे तृतीया । शीघ्रगमनेभ्यो मुहूर्तं मुहूर्तमात्रमुप रमध्वम् । उपपूर्वो रमिरुपसंहारे वर्तते । क्षणमात्रं शीघ्रगमनादुपरता भवत । सामान्येन सदीषूच्यमानासु समीहितं प्रयोजनमकुर्वतीषु पुरोवर्तिनिं शुतुद्रीं प्रति ब्रूते । कुशिकस्य राजर्षेः सूनुर्विश्वामित्रोऽहं बृहती महत्या मनीषा मनीषया स्तुत्यावस्युरात्मनो रक्षणमिच्छन् सन् सिन्धुं शुतुद्रीं त्वामच्छाभिमुख्येन प्राह्वे । प्रकर्षेणाह्वयामि । अत्र निरुक्तम् । उपरमध्वरं मे वचसे सोम्याय सोमसम्पादिन ऋतावरीरुतवत्य ऋतमित्युदकनाम प्रत्यृतं भवति मुहूर्तमेवैरयनैरवनैर्वा । प्राभिह्वयामि सिन्धुं बृहत्या महत्या मनीशया मनस ईषया स्तुत्या प्रज्ञया वावनाय कुशिकस्य सूनुः । कुशिको राजा बभूव । नि. २-२५ ॥ इति ॥ रमध्वम् । रमु उपरमे । उपपूर्वाद्रमतेर्विभास्षाकर्मकात् । पा. १-३-८५ । इत्यात्मने पदम् । ऋतावरीः । ऋतशब्दान्मत्वर्थे छन्दसीवनिपाविति वनिप् । वनो र चेति ङीप् रेफश्चान्तादेशः । वा छन्दसीति सवर्णदीर्घः । आमन्त्रितस्य पादादित्वात्षाष्ठिकमाद्युदात्तत्वम् । एवैः । इण् गतौ । इण् शीङ्भ्यां वन् । आर्धधातुकलक्षणो गुणः । नित्स्वरः । बृहती मनीषा । उभयत्र तृतीयायाः पूर्वसवर्णदीर्घः । अवस्युः । अवो रक्षणमिच्छन् । सुप आत्मनः क्यच् । नः क्य इति नकारान्तस्य पदसंज्ञाया नियमितत्वादत्र सकारस्य रुर्न भवति । क्याच्छन्दसीत्युप्रत्ययः । आह्वे । ह्वयतेर्लुङे सिच आत्मनेपदेष्वन्यतरस्याम् । पा. ३-१-५४ ॥ इत्यङादेशः । गुणः निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२