मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् ६

संहिता

इन्द्रो॑ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा॑हन्वृ॒त्रं प॑रि॒धिं न॒दीना॑म् ।
दे॒वो॑ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या॑म उ॒र्वीः ॥

पदपाठः

इन्द्रः॑ । अ॒स्मान् । अ॒र॒द॒त् । वज्र॑ऽबाहुः । अप॑ । अ॒ह॒न् । वृ॒त्रम् । प॒रि॒ऽधिम् । न॒दीना॑म् ।
दे॒वः । अ॒न॒य॒त् । स॒वि॒ता । सु॒ऽपा॒णिः । तस्य॑ । व॒यम् । प्र॒ऽस॒वे । या॒मः॒ । उ॒र्वीः ॥

सायणभाष्यम्

नद्यः प्रत्यूचुः । हे विश्वामित्र वज्रबाहुः । वज्रयुक्तो बाहुर्यस्यासौ वज्रबाहुः । तादृशो बलवानिन्द्रो नदीरस्मानरदत् । रदतिः खनतिकर्मा अखनत् । कथमखनत् । उच्यते । नदीनां शब्दकारिणीनामपां परिधिं परितो निहितमुदकमन्तः कृत्वा परितो वर्तमानमित्यर्थः । तादृशं वृत्रं वृणोत्याकाशमिति वृत्रो मेघः । तं मेघमपाहन् । जघान । तस्मिन्हत आपः पतिताः । ताभिर्गच्छन्तीभिर्वयं खाताः । एवं मेघहननद्वारेणाखनत् । न केवलमखनत् किं तर्हि सविता सर्वस्य जगतः प्रेरकः सुपाणिः शोभनहस्त उत्पत्तिस्थितिकर्तृत्वात्तादृशो देवो द्योतमान इन्द्रोऽस्माननयत् । मेघभेदनं कृत्वोदकप्रेरणेन समुद्रमपुरयत् । तस्य तादृशसामर्थ्योपेतस्येन्द्रस्य प्रसवेऽभ्यनुज्ञायां वर्तमाना उर्वीरुदकईः प्रभूता वयं यामः । गच्छामः । न तव वचनादुपरमामहे । उक्तार्धं यास्को ब्रवीति । इन्द्रो अस्मानरदद्वज्रबाहू रदतिः खनतिकर्मापाहन्वृत्रं परिधिं नदीनानुति व्याख्यातम् । देवोऽनयत्सविता सुपाणिः कल्याणपाणीः । पाणीः पणाय पूजाकर्मणः प्रगृह्य पाणी देवान्पूजयन्ति । तस्य वयं प्रसवे याम उर्वीरुर्व्यः । नि. २-२६ । इति । आरदत् । रदतेर्लङि रूपम् । वज्रबाहुः । बहुव्रीहौ पूर्वपदस्वरः । आहन् । हन्तेर्लङि रूपम् । निघातः । परिधिम् । डुधाञ् धारण पोषणयोरित्यस्मात्कर्मण्युपसर्गे घोः किरिति किप्रत्ययः । आतो लोपः । कृदुत्तरपदस्वरः । अनयत् । नयतेर्लङि रूपम् । सुपाणीः । पण व्यवहारे स्तुतौ च । अशिपणाय्यो रुडायलुकौ च । उ. ४-१३२ । इतीण् । आयलुक् । बहुव्रीहौ नञ्सुभ्यामिति स्वरः । प्रसवे । षू प्रेरणे । ॠदोरबिति भावेऽप्रत्ययः । थाथघञ्क्तेत्युत्तरपदान्तोदात्तत्वम् । यामः । या प्रापण इत्यस्य लटी रूपम् । निघातः । उर्वीः । उरुशब्दाद्वोतो गुणवचनादिति ङीष् । वा छन्दसीति सवर्नदीर्घः । प्रत्ययस्वरः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३