मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् ८

संहिता

ए॒तद्वचो॑ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ ।
उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ॥

पदपाठः

ए॒तत् । वचः॑ । ज॒रि॒तः॒ । मा । अपि॑ । मृ॒ष्ठाः॒ । आ । यत् । ते॒ । घोषा॑न् । उत्ऽत॑रा । यु॒गानि॑ ।
उ॒क्थेषु॑ । का॒रो॒ इति॑ । प्रति॑ । नः॒ । जु॒ष॒स्व॒ । मा । नः॒ । नि । क॒रिति॑ कः । पु॒रु॒ष॒ऽत्रा । नमः॑ । ते॒ ॥

सायणभाष्यम्

नद्यः प्रसङ्गादिन्द्रस्तोत्रं कृत्वा विश्वामित्रं प्रत्यूचुः । जरितः स्तोतर्हे विश्वामित्र ते त्वदीयं यत्संवादात्मकं वचस्त्वं नोऽभीत्या घोषानुद्घोषयन्वर्तसे तद्वचो मापि मृष्ठाः । मा विस्मार्षीः । किं कारणम् । उत्तरा युगान्युत्तरेषु याज्ञिकेषु युगेष्वहः सुक्थेषु कारो शस्त्रानां कर्तस्त्वं नोऽस्मान्प्रति जुषस्व संवादात्मकेन तेन वाक्येन प्रतिसेवस्व । इदानीं नोऽस्मान् पुरुपत्रा पुरुषेषु मानिकः । उक्तिप्रत्युक्तिरूपसंवादवाक्याध्यापनेन नितरां पुंवत् प्रागल्भ्यं मा कार्षीः । ते तुभ्यम् नमः ॥ मृष्ठाः । व्रश्चादिना षत्वम् । निघातः । घोषान् । घुषिर् संशब्दन इत्यस्य शतरि सर्वविधीनां छन्दसि विकल्पितत्वादतो गुण इति पररूपत्वाभावः । सवर्नदीर्घः । शतुर्लसार्वधातुकस्वरे कृते धातुस्वरः । युगानि । युजिर् योगे । उंछादिशु घञंतत्वेन निपातनादगुणत्वम् । विशिष्टविषयं च निपातनमिष्यते । कालविशेषे रथाद्युपकरणे चेति तत्र पाठादेवान्तोदात्तत्वम् । कालाध्वनोरत्यन्त संयोग इति द्वितीया कारो । करोतेः कृवापाजिमीत्यादिना उण्प्रत्ययः । आमन्त्रितत्वान्निघातः । कः । करोतेर्लुङे च्लेर्मन्त्रे घसेत्यादिना लुक् । हल्ङ्यादिना सिचो लोपः । न माङ्योग इत्यडभावः । पुरुषत्रा । देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलमिति सप्तम्यर्थे त्राप्रत्ययः । प्रत्ययस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३