मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् ९

संहिता

ओ षु स्व॑सारः का॒रवे॑ शृणोत य॒यौ वो॑ दू॒रादन॑सा॒ रथे॑न ।
नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोअ॒क्षाः सि॑न्धवः स्रो॒त्याभि॑ः ॥

पदपाठः

ओ इति॑ । सु । स्व॒सा॒रः॒ । का॒रवे॑ । शृ॒णो॒त॒ । य॒यौ । वः॒ । दू॒रात् । अन॑सा । रथे॑न ।
नि । सु । न॒म॒ध्व॒म् । भव॑त । सु॒ऽपा॒राः । अ॒धः॒ऽअ॒क्षाः । सि॒न्ध॒वः॒ । स्रो॒त्याभिः॑ ॥

सायणभाष्यम्

विश्वामित्रो नदीः प्रत्युवाच । स्वसारो भगिन्यः सिन्धवो हे नद्यः कारवेस्तोत्रं कुर्वाणस्य मम वचनं सु सुष्ठु ओ शृणोत । शृणुतैव । अनसा शकटेन रथेन च सह दूराद्विप्रकृष्टाद्देशाद्वो युष्मान्ययौ । प्राप्तोऽस्मि यूयं सु सुष्थु नि नमध्वम् । आत्मना स्वयं प्राह्वा भवत । तथा सुपाराः । रथादीनां तीरात्सुखेनावरोहणारोहणे यथा स्यातां तथा शोभनरोधसश्च भवत । किञ्च यूयं स्तोत्याभिः स्रवणशीलाभिरद्भिरधो अक्षा रथाङ्गस्याक्षस्याधस्ताद्भवत । यदापोऽक्षसाधस्ताद्भवन्ति तदा रथादीनि नेतुं शक्यन्ते । तस्मात्तत्परिमाणोदका भवतेत्यर्थाभिप्रायः ॥ ओ इति प्रगृह्यसंज्ञा । शृणोत । श्रु श्रवण इत्यस्य लोटि त प्रत्ययस्य तप्तनप्तनथानाश्चेति तबादेशः । पित्त्वाद्गुणः । निघातः । ययौ । या प्रापण इत्यस्य भूतमात्रे लिट्युत्तमे णल्यात औणल इत्यौकारः । एकादेशस्वरः । वः । युश्मच्छब्दस्य द्वितीयाया बहुवचनस्य वस्नसाविति वसादेशः । षू । निपातस्येति संहितायां दीर्घः । नमध्वम् । णमु प्रह्वत्वे शब्दे चेत्यस्य कर्मकर्तरि न दुह्स्नु नमां यक्चिणाविति प्रतिषेधाद्यगभावः । अधो अक्शाः । अधरशब्दस्य पूर्वार्धरावराणामसि पुरधवश्चैषामित्यसिप्रत्ययोऽधादेशश्च । अक्षशब्दोऽशू व्याप्तवित्यस्मादशेर्देवने । उ. ३-६५ । इति सप्रत्ययान्तः । कृदुत्तरपदप्रकृतिस्वरः । सिन्धवः । आमन्त्रितत्वान्निघातः । स्रोत्याभिः । स्रोतः शब्दात्स्रोतसो विभाषा ड्यडौड्यौ । पा. ४-४-११३ । इति ड्य प्रत्ययः । डित्त्वाट्टिलोपः । प्रत्ययस्वरः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३