मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् १०

संहिता

आ ते॑ कारो शृणवामा॒ वचां॑सि य॒याथ॑ दू॒रादन॑सा॒ रथे॑न ।
नि ते॑ नंसै पीप्या॒नेव॒ योषा॒ मर्या॑येव क॒न्या॑ शश्व॒चै ते॑ ॥

पदपाठः

आ । ते॒ । का॒रो॒ इति॑ । शृ॒ण॒वा॒म॒ । वचां॑सि । य॒याथ॑ । दू॒रात् । अन॑सा । रथे॑न ।
नि । ते॒ । नं॒सै॒ । पी॒प्या॒नाऽइ॑व । योषा॑ । मर्या॑यऽइव । क॒न्या॑ । श॒श्व॒चै । त॒ इति॑ ते ॥

सायणभाष्यम्

नद्यः पूर्वं विश्वामित्रवाक्यं प्रत्याख्यायानयर्चा तस्य वाक्यमाशुश्रुवुः । कारो स्तोत्रं कुर्वाण हे विशावित्र ते तव वचांसीमानि वाक्यान्या शृणवाम । षृणुमः । तव समीहितं प्रयोजन कुर्म इत्यर्थः । अनसा शकटेन रथेन च सह ययाथ । यतो दूरादागतोऽसि । वयं च ते त्वदर्थं नि नंस्यै । नीचैर्नमाम । प्रत्येकविवक्षयात्रैकवचनम् । रथेन गन्तुं गाधोदका भवामेत्यर्थः । तत्र दृष्टान्तः । पीप्यानेव योषा । पीप्याना पुत्रं स्तनं पाययन्ती योशा माता यथा प्रह्वीभवति । दृष्टान्तान्तरम् । यथा कन्या युवतिर्मर्यायेव मनुश्याय पित्रे भ्रात्रे वा शश्वचै परिषजनाय नम्रा भवति तद्वत्ते त्वदर्थं प्रह्वीभवादुः । ते इति पुनरुक्तिरादरार्थम् । एतामृचं यास्क एवं व्याचष्टे । आशृणवाम ते कारो वचनानि याहि दूरादनसा च रथेन च निनमाम ते पाययामानेव योषा पुत्रं मर्यायेव कन्या परिष्वजनाय निनमा इति वा । नि. २-२७ ॥ इति । कारो । संबुद्धौ शाकल्यस्येतौ । पा. १-१-१६ । इति प्रगृह्यसंज्ञा । शृणवाम । श्रु श्रवण इत्यस्य लोट्याडुत्तमस्य पिच्चेत्याडागमः । पित्त्वाद्गुनः । निघातः । ययाथ । या प्रापण इत्यस्य भुतमात्रे लिटि थल्येकाच उपदेशेऽनुदात्तादितीट् प्रतिषेधः । लित्स्वरः । अनसा । सहार्थे तृतीया । नंस्यै । णमु प्रह्वत्व इत्यस्य लेट्युत्तमे लेटि सिब्बहुलमिति सिप् । वैतोऽन्यत्रेत्यैकारादेशः । निघातः । पीप्यानेव । पीङ् पान इत्यस्यान्तर्भावितण्यर्थस्य लिटि कानचि रूपम् । चित्स्वरः । योषा । यु मिश्रणे । वृतॄवदिहनीत्यादिना । उ. ३-६२ । सप्रत्ययः । यौतीति योषा । वृषादित्वादाद्युदात्तः । शश्वचै । श्वन्ज परिष्वङ्ग इत्यस्मात्संपदादिलक्शणो भावे क्विप् । पृषोदरादित्वादिष्टरूपसिद्धिरन्तोदात्तश्च ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३