मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् ११

संहिता

यद॒ङ्ग त्वा॑ भर॒ताः सं॒तरे॑युर्ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः ।
अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो॑ वृणे सुम॒तिं य॒ज्ञिया॑नाम् ॥

पदपाठः

यत् । अ॒ङ्ग । त्वा॒ । भ॒र॒ताः । स॒म्ऽतरे॑युः । ग॒व्यन् । ग्रामः॑ । इ॒षि॒तः । इन्द्र॑ऽजूतः ।
अर्षा॑त् । अह॑ । प्र॒ऽस॒वः । सर्ग॑ऽतक्तः । आ । वः॒ । वृ॒णे॒ । सु॒ऽम॒तिम् । य॒ज्ञिया॑नाम् ॥

सायणभाष्यम्

विश्वामित्रो नदीः प्रत्युवाच । अङ्गेत्यामन्त्रणे । हे नद्यो यद्यस्माद्युष्माभिरुत्तितीर्षोर्ममोत्तरणमभ्यनुज्ञातं तस्माद्भरता भरतकुलजा मदीयाः सर्वे त्वा परस्परमेकतामापन्नां नदीं त्वां सन्तरेयुः । स्म्यगुत्तीर्णा भवेयुः । तदेव विशिनष्टि । गव्यन् गा उदकानि तरीतुमिच्छन्निषितस्त्वयाभ्यनुज्ञात इन्द्रजूतो युश्माकं प्रवर्तकेनेन्द्रेण च प्रेरितो ग्रामो भरतानां संघोऽर्षात् । सन्तरेत् । यतः सर्गतक्तो गमनाय प्रवृत्तः प्रसवस्तेषामुद्योगोऽह पूर्वं युष्माभिरनुज्ञातः । अहं तु यज्ञयानां यज्ञार्हाणां वो युश्माकं सुमतिं शोभनां स्तुतिमावृणे । सर्वतः सम्भजे । भरताः । भरतशब्दादुत्सादित्वादञ् । तस्य यञञोश्चेति लुक् । अतच् प्रत्ययस्वरः । सन्तरेयुः । तरतेर्लिङि जुसि रूपम् । झेर्लसार्वधातुकस्वरे धातुस्वरः । तिङि चोदात्तवतीति गतेर्निघातः । गव्यन् । गा आत्मन इच्छन् । सुपः क्यच् । एकादेशस्वरः । ग्रामः । ग्रसतेरा च । उ. १-१४२ । इति मन्प्रत्यय आकारादेशश्च । नित्स्वरः । इन्द्रजूतः । जू इति सौत्रो धातुर्गत्यर्थः । श्र्युकः कितीति निश्ठायामिट् प्रतिषेधः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । अर्षात् । ऋ गतावित्यस्य लेटि तिपि सिब्बहुलमिति सिप् । लेटोऽडागमः । एकाच इतीट् प्रतिषेधः । गुणः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः वृणे । वृङ् सम्भक्तावित्यस्य लटि रूपम् । यज्ञियानां यज्ञ्र्त्विग्भ्यां घखञाविति घप्रत्ययः । प्रत्ययस्वरः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४