मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३३, ऋक् १३

संहिता

उद्व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत ।
मादु॑ष्कृतौ॒ व्ये॑नसा॒घ्न्यौ शून॒मार॑ताम् ॥

पदपाठः

उत् । वः॒ । ऊ॒र्मिः । शम्याः॑ । ह॒न्तु॒ । आपः॑ । योक्त्रा॑णि । मु॒ञ्च॒त॒ ।
मा । अदुः॑ऽकृतौ । विऽए॑नसा । अ॒घ्न्यौ । शून॑म् । आ । अ॒र॒ता॒म् ॥

सायणभाष्यम्

पूर्वमुत्तितीर्शुर्विश्वामित्रो नदीरुक्त्वाधुनोत्तितीर्षुः पुनराह । हे नद्यो वो युष्माकमूर्मिस्तरङ्गः शम्या युगकीला युग्यकटपार्श्वादिसंलग्नारज्जव उदूर्ध्वं यथा भवन्ति तथा हन्तु । गच्छतु । स तरङ्गो रज्जूनामधो गच्छत्वित्यभिप्रायः । तथा हे आपो यूयं योक्राणि ता रज्जूर्मुञ्चत । यथा न स्पृशन्ति तथा यान्त्वित्यभिप्रायः । व्येनसा विगतपापे आत एवादुष्कृतौ कल्याणकर्मकारिण्यौ अघ्न्यावघ्न्ये न केनापि तिरस्करणिये विपाट्छुतद्रौ शूनं समृद्धिं मारताम् । आगच्छताम् । एवं विश्वामित्रो नदीः स्तुत्वा ताभिरनुज्ञातोऽतरदिति ॥ ऊर्मिः । ऋ गतौ अर्तेरूच्चेति मिप्रत्ययः । ऊरित्ययमादेशो धातोः ऋच्छतीत्यूर्मिः प्रत्ययस्वरः । शम्याः । शमु उपरमे पोरदुपधादिति यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तत्वम् । हन्तु हन हिम्सागत्योरित्यस्य लोटि रूपम् । निघातः । योक्त्राणि युजिर् योगे । करणे दाम्नीशसयुयुजेत्यादिना ष्ट्रन्प्रत्ययः । नित्स्वरः । मुञ्चत मुच्लृ मोक्शणे । निघातः । अदुष्कृतौ । इसुसोः सामर्थ्य इति विसर्जनीयस्य षत्वं व्येनसा बहुव्रीहौ पुर्वपदस्वरः । सुपो डादेशः । आघ्न्यौ । हन हिम्सागत्योरित्यस्य नञ्पूर्वस्याघ्न्यादयश्चेति निपातनाद्यक् । कित्त्वादुपधाऊपः । हो हन्तेरिति घत्वम् । सर्वविधीनां छन्दसि विकल्पितत्वादत्रौञः शीभावाभावः । एकादेशस्वरः । शूनम् । श्वयतेर्नपुंसके भावे क्त इति क्तः । यजादित्तात्संप्रसारनम् । हल इति दीर्घत्वं ओदितश्चेति निष्ठानत्वम् । निष्ठा च द्व्यजनादित्याद्युदात्तः । अरताम् । ऋ गतावित्यस्य लुङि च्लेः सर्तिशास्त्यर्तिभ्यश्चेत्यङादेशः । ऋदृशोऽङि गुणः । नमाङ्योग इत्यडभावः निघातः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४