मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३४, ऋक् २

संहिता

म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय॑र्मि॒ वाच॑म॒मृता॑य॒ भूष॑न् ।
इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी॑नामु॒त पू॑र्व॒यावा॑ ॥

पदपाठः

म॒खस्य॑ । ते॒ । त॒वि॒षस्य॑ । प्र । जू॒तिम् । इय॑र्मि । वाच॑म् । अ॒मृता॑य । भूष॑न् ।
इन्द्र॑ । क्षि॒ती॒नाम् । अ॒सि॒ । मानु॑षीणाम् । वि॒शाम् । दैवी॑नाम् । उ॒त । पू॒र्व॒ऽयावा॑ ॥

सायणभाष्यम्

हे इन्द्र भूषन् त्वामलङ्कुर्वन्नहं मखस्य महनीयस्य स्तुत्यस्य तविषस्य बलवतस्ते तव जूतिं मनसा प्रेरितां वाचं स्तुतिलक्शणाममृतायान्नार्थं प्रेयर्मि । प्रकर्षेणोच्चारयामि । मानुषीणां क्षितीनां मनोर्जातानां मनुष्याणां उत अपि च दैवीनां देवसंबन्धीनीनां विशां प्रजानां पुर्वयावाग्रतो गन्तात्वमसि ॥ मखस्य । मह पूजायाम् । नहेर्हलोपश्च । उ. ५-२३ । इति हलोप इत्यनुवृत्तौ महेश्चेति खप्रत्ययो हलोपश्च । मह्यते पूज्यते सर्वैरिति मुखः । खान्तस्याश्मादेः । फि. १-६ । इत्यन्तोदात्तत्वम् । यद्यपि मकारादिर्भवति तथापि वचनसामर्थ्याद्भवति । तविषस्य । तवतेष्टिषच् प्रत्ययः । चित्स्वरः । जूतिम् । ऊतियूतीत्यादिनाक्तिन उदात्तत्वम् । इयर्मि । अर्तिर्जुहोत्यादिः । अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् । अभ्यासस्येतीयङादेशः । पादादित्वान्न निघातः । अभ्यस्तस्वरः । भूषन् । भूष आलङ्कार इत्यस्य शतरि रूपम् । शतुर्लसार्वधातुकस्वरे धातुस्वरः । असि । अस्तेर्लटि रूपम् । निघातः । मानुषीणाम् । मनोर्जातावित्यञ् । षुगागमः । टड्ढाणञिति ङेप् । ञित्त्वरः । दैवीनाम् । देवाद्यञञावित्यञ् । अत्रापि पूर्ववत् ङेप् । ञित्स्वरः । पुर्वयावा । या प्रापण इत्यस्मादतो मनिस्क्वनिब्वनिपश्चेति वनिप् । क्रुदुत्तरपदस्वरः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५