मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३४, ऋक् ३

संहिता

इन्द्रो॑ वृ॒त्रम॑वृणो॒च्छर्ध॑नीति॒ः प्र मा॒यिना॑ममिना॒द्वर्प॑णीतिः ।
अह॒न्व्यं॑समु॒शध॒ग्वने॑ष्वा॒विर्धेना॑ अकृणोद्रा॒म्याणा॑म् ॥

पदपाठः

इन्द्रः॑ । वृ॒त्रम् । अ॒वृ॒णो॒त् । शर्ध॑ऽनीतिः । प्र । मा॒यिना॑म् । अ॒मि॒ना॒त् । वर्प॑ऽनीतिः ।
अह॑न् । विऽअं॑सम् । उ॒शध॑क् । वने॑षु । आ॒विः । धेनाः॑ । अ॒कृ॒णो॒त् । रा॒म्याणा॑म् ॥

सायणभाष्यम्

शर्धनीतिः । नयनं नीतिः कर्म । शर्धं प्रवृद्धं नीतिः कर्म यस्य स तथोक्तः । स इन्द्रो वृत्रमसुरमवृणोत् । बलेनारुन्धत् । तथा वर्पणीतिर्युद्धे परप्रहाराणां निवारककर्मेन्द्रो मायिनाम् । द्वितीयार्थे षष्ठी । मायिनोऽसुरान् प्रामिनात् । प्रकर्षेणावधीत् । उशधक् शत्रुवधं कामयमान इन्द्रो वनेषु गूढचारिणमसुरं व्यंसं विगतांसं यथा भवति तथाहन् । जघान । अथ तस्मिन् रात्रिचरे गवामपहर्तरि हते सति राम्याणाम् । रमणं स्त्रीभिः सह क्रीडा रामः । तमर्हन्तिति रम्या रात्रयः । तासां रात्रीणामन्तःस्थिता धेना गा आविरकृणोत् । प्रकटा अकरोत् । रात्रीणामसुराक्रान्तत्वे तैत्तिरीयकम् । अहर्देवानामासीदात्रिरसुरानां तेऽसुरा यद्देवानां वित्तं वेद्यमासीत्तेन सह रात्रिं प्राविशन्निति ये दिवास्तोतारो राम्यास्तेषां वाचो धेना इति ॥ आवृणोत् । वृञ् वरण इत्यस्य लङि रूपं निघातः । शर्धनितिः । शर्धतिरुत्साहार्थः । अस्मात्कर्मणि घञ् । बहुव्रीहौ पुर्वपदस्वरः । अमिनात् । मीञ् हिंसायामित्यस्य लङि मीनातेर्निगम इति ह्रस्वः । निघातः । अहन् हन्तेर्लङि रूपम् । उशधक् । वश कानौ । पृषोदरादित्वाद्रूप सिद्धिः आविः । स्वरादिष्वन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । धेनाः । धेट् पाने । धेट ई च उ. ३-११ । इति न प्रत्यय ईकारश्चान्तादेशः । गुणः । धयन्ति तामिति धेना वाक् । धेना जिगाति । ऋग्वे १-२-३ । इत्यत्र प्रत्ययस्वरेणान्तोदात्तः । अत्र व्यत्ययेनाद्युदात्तत्वम् । अकृणोत् । कृवि हिम्साकरनयोः । निघातः । राम्यानाम् । रमु क्रीडायाम् । राममर्हतीत्यर्थे छन्दसि चेति यप्रत्ययः । तस्य स्वरः । यद्वा रमेरन्तर्णीतण्यर्थादघ्न्यादयश्चेति यक्प्रत्ययः । प्ररमयति भुतानि नक्तंचारीण्युपरमयतीतराणीति यास्कः । नि. २-१८ । वर्णव्यत्ययः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५