मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३४, ऋक् ४

संहिता

इन्द्र॑ः स्व॒र्षा ज॒नय॒न्नहा॑नि जि॒गायो॒शिग्भि॒ः पृत॑ना अभि॒ष्टिः ।
प्रारो॑चय॒न्मन॑वे के॒तुमह्ना॒मवि॑न्द॒ज्ज्योति॑र्बृह॒ते रणा॑य ॥

पदपाठः

इन्द्रः॑ । स्वः॒ऽसाः । ज॒नय॑न् । अहा॑नि । जि॒गाय॑ । उ॒शिक्ऽभिः॑ । पृत॑नाः । अ॒भि॒ष्टिः ।
प्र । अ॒रो॒च॒य॒त् । मन॑वे । के॒तुम् । अह्ना॑म् । अवि॑न्दत् । ज्योतिः॑ । बृ॒ह॒ते । रणा॑य ॥

सायणभाष्यम्

स्सर्षाः स्वर्गप्रद इन्द्रोऽहानि स्वतेजोभिर्जनयन्नुशिग्भिर्युद्धं कामयमानैरङ्गिरोभिः सह पृतनाः परकीयाः सेना अभिष्टिरभिभावुकः सन् जिगाय । शत्रूनजैषीत् । शत्रुवधानन्तरं मनवे मनुष्याय कर्मकर्त्रे यजमानया अह्नां केतुं प्रज्ञापकं सूर्यं प्रारोचयत् तथा च तमोरूपासुरवधात्प्रकर्षेणादीपयत् । ततो बृहते रणाय युद्धप्रकाशनाय ज्योतिः प्रकाशमविन्दत् अलभत ॥ स्वर्षाः । षणु दाने । क्विप् । जनसनख्हनां स्न्झलोरित्यात्वम् । सनोतेरन इति षत्वम् । अहरादीनां पत्यादिषूपसंख्यानमिति विसर्जनीयस्य रुत्वम् । जिगाय जि जय इत्यस्य लिटि सन्लिटोर्जेरित्यभ्यासादुत्तरस्य कवर्गादेशः । लित्स्वरः पृतनाः पृङ् व्यायामे । कृपृभ्यां किदिति तनन्प्रत्ययः । व्याप्रियन्तेऽत्र योद्धार इति पृतना सेनाः । नित्त्वादाद्युदात्तः । अभिष्टिः । अभिगन्ता । इष गतौ । मन्त्रे वृषेत्यादिना क्तिन्नुदात्तः । स हि भावपरोऽपि भवितारं लक्षयति । तितुत्रतथेत्यादिनेट् प्रतिषेधः । शकंध्वादित्वात्पररूपत्वम् । कृदुत्तरपदस्वरः । अरोचयत् । रुच दीप्तावित्यस्य लङि रूपम् । मनवे । मन ज्ञाने । शॄ स्वृस्निहीत्यादिना उप्रत्ययः । निदनुवृत्तेराद्युदात्तः । अविंदत् । विद्लृ लाभ इत्यस्य शे मुचादीनामिति नुम् । पादादित्वादनिघातः । रणाय । क्रियाग्रहणं कर्तव्यम् । म. १-४-३२ ॥ इति सम्प्रदानसंज्ञा । रणतिः शब्दार्थः । वशिरण्योरुपसंख्यानमित्यप्रत्ययः । रणन्ति शब्दं कुर्वन्ति परस्परं योद्धारोऽत्रेति रणः सङ्ग्रामः । प्रत्ययस्य पित्त्वादनुतात्तत्वे धातुस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५