मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३४, ऋक् ५

संहिता

इन्द्र॒स्तुजो॑ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा॑नो॒ नर्या॑ पु॒रूणि॑ ।
अचे॑तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा॑साम् ॥

पदपाठः

इन्द्रः॑ । तुजः॑ । ब॒र्हणाः॑ । आ । वि॒वे॒श॒ । नृ॒ऽवत् । दधा॑नः । नर्या॑ । पु॒रूणि॑ ।
अचे॑तयत् । धियः॑ । इ॒माः । ज॒रि॒त्रे । प्र । इ॒मम् । वर्ण॑म् । अ॒ति॒र॒त् । शु॒क्रम् । आ॒सा॒म् ॥

सायणभाष्यम्

स तादृश इन्द्रस्तुजो बाधिका बर्हणा युद्धोत्साहेन वर्धन् ानाः परकीयाः सेना नृवन्मनुष्यवदा विवेश । प्रकाशं लब्ध्वा प्राविशत् । किं कुर्वन् । पुरूणि बहूनि नर्या युद्धनयनकारिणां योग्यानि धनानि दधानः प्रयच्छन्नाविवेश । स इन्द्रो जिरित्रे स्तोत्र इमा दृश्यमान धिय उषसः । ध्यायन्त्यासु मनुश्या इशि । ता धियोऽचेतयत् । अज्ञापयत् । अथासामुषसामिमं शुक्रं वर्णं प्रकाशेन युक्तं प्रातिरत् । स्वतेजसा प्रकर्षेण वर्धयति । धीशब्दस्योषः परत्वे मन्त्रवर्णः । शुक्रवर्णामुदु नो यंसते धियम् । ऋग्वे. १-१४३-७ । इति । तुजः । तुज हिंसायाम् । क्विप् । धातुस्वरः । बर्हणाः । वृहि व्रुद्धौ । अस्माद्युच् । बहुलमिति कर्तरि युच् । व्यत्ययेनाद्युय्दात्तत्वम् । विवेश । विशेतेर्लिटि रूपम् । निघातः । नृवत् । नृशब्दात्तेन तुल्यमिति वतिप्रत्ययः । तस्य स्वरः । दधानः । दधातेः शानचि रूपम् । अभ्यस्तानामादिरित्याद्युदात्तत्वं नर्या । नरेषु साधूनीत्यर्थे तत्र साधुरिति यत् । यतोऽनाव इत्याद्युदात्तत्वम् । अचेतयत् । चिती संज्ञान इत्यस्य ण्यन्तस्य लङि रुपम् । अडागमस्वरः । धियः । ध्यै चिन्तायाम् । अन्येभ्योऽपि दृश्यत इति क्विप् । दृशिग्रहणात्संप्रसारनम् । धातुस्वरः । इमाः । दश्च । पा. ७-२-१-९ । इति दकारस्य मकारः । एकादेशस्वरः । अतिरत् । तरतेर्व्यत्ययेन शः । निघातः । आसाम् । इदमोऽन्वादेशेऽशित्यशादेशोऽनुदात्तश्च । प्रत्ययः सुप्त्वादनुदात्तः । अतः सर्वानुदात्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५