मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३४, ऋक् ७

संहिता

यु॒धेन्द्रो॑ म॒ह्ना वरि॑वश्चकार दे॒वेभ्य॒ः सत्प॑तिश्चर्षणि॒प्राः ।
वि॒वस्व॑त॒ः सद॑ने अस्य॒ तानि॒ विप्रा॑ उ॒क्थेभि॑ः क॒वयो॑ गृणन्ति ॥

पदपाठः

यु॒धा । इन्द्रः॑ । म॒ह्ना । वरि॑वः । च॒का॒र॒ । दे॒वेभ्यः॑ । सत्ऽप॑तिः । च॒र्ष॒णि॒ऽप्राः ।
वि॒वस्व॑तः । सद॑ने । अ॒स्य॒ । तानि॑ । विप्राः॑ । उ॒क्थेभिः॑ । क॒वयः॑ । गृ॒ण॒न्ति॒ ॥

सायणभाष्यम्

सत्पतिः सतां देवानां पतिश्चर्षणिप्राश्चर्षणीनां मनुष्याणामपेक्षितफलप्रदानेन कामपुरकः स इन्द्रो मह्ना महता युधा युद्धेन वरिवः । भृशं व्रियतेऽर्थिभिरिति वरिवो धनम् । तादृशं धनं युद्धेन लब्ध्वा देवेभ्यो देवनशीलेभ्यः स्तोतृभ्यश्चकार । दत्तवान् । विप्रा मेधाविनः कवयः स्तोतारो विवस्वतो विशेषेणाग्निहोत्रादिकर्मार्थे वसतो यजमानस्य सदने गृहेऽस्येन्दस्य तानि व्रुत्रहननबहुप्रदानानि कर्माण्य्क्थेभिः स्तोत्रैर्गृणन्ति । स्तुवन्ति ॥ युधा । युध सम्प्रहारे । भावे सम्पदादिलक्शनः क्विप् । सावेकाच इति विभक्तेरुदात्तता । वरिवः । वृञ् वरण इत्यस्य यङ् लुकि ऋतश्चेत्यभ्यासस्य रिगागमः । तदन्तादसुन् । बाहुलकाट्टिलोपः । नित्स्वरः । चकार । करोतेर्लिटि रूपम् । निघातः । सत्पतिः । अस्तेः शरति रूपं सदिति । पत्यावैश्वर्य इति पूर्वपदप्रकृतिस्वरत्वम् । चर्षणिप्राः । प्रा पुरणे । विच् । विवस्वतः । विपूर्वाद्वस निवास इत्यस्मात्संपदादिलक्षणणो भावे क्विप् । तदस्यास्त्यस्मिन्निति मतुप् । मादुपधाया इति तस्य वत्वम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । गृणन्ति । गृ शब्द इत्यस्य लिटि रूपम् । निघातः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६