मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३४, ऋक् ८

संहिता

स॒त्रा॒साहं॒ वरे॑ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः ।
स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं॑ मद॒न्त्यनु॒ धीर॑णासः ॥

पदपाठः

स॒त्रा॒ऽसह॑म् । वरे॑ण्यम् । स॒हः॒ऽदाम् । स॒स॒वांस॑म् । स्वः॑ । अ॒पः । च॒ । दे॒वीः ।
स॒सान॑ । यः । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । इन्द्र॑म् । म॒द॒न्ति॒ । अनु॑ । धीऽर॑णासः ॥

सायणभाष्यम्

धीरणासो धिया स्तुत्या रणयन्तः स्तोतारः सत्रासाहं महतो वृत्रादेरभिभवितारमत एव वरेण्यं सर्वैर्वरणीयं सहोदां दुर्बलस्यार्थिनो बलप्रदं देविर्देवनशिला अपः स्वश्च स्वर्लोकं च ससवांसम् भजमानमिन्दर्मनु मदन्ति । हृष्यन्ति । हर्षमनु स्वयम् हृष्यन्तीत्यर्थः । य इन्द्रः पृथिवीमुत अपि च च्यां द्युलोकमिमामिममन्तरिक्षलोकम् । चैतांस्त्रिल्लोकान् ससान तत्तल्लोकवासिभ्यो ददौ । तमनुमदन्तीत्यन्वयः । सत्रासाहम् । षह मर्षने । छन्दसि सह इति ण्विः । णित्वा दुपधावृद्धिः । ससवांसम् । षण संभक्तावित्यस्य क्वसाविडभावे नकारलोपे रूपं प्रत्ययस्वरः । ससान । षणु दान इत्यस्य लिति रुपम् । लित्स्वरः । मदन्ती । मदि स्तुत्याद्श्वित्यस्य व्यत्ययेन परस्मैपदम् । निघातः । धीरनासः । रणतीति रणा वाक् । धिया स्तुत्या रणा येशां ते धीरणाः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६