मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३४, ऋक् ९

संहिता

स॒सानात्याँ॑ उ॒त सूर्यं॑ ससा॒नेन्द्र॑ः ससान पुरु॒भोज॑सं॒ गाम् ।
हि॒र॒ण्यय॑मु॒त भोगं॑ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ॥

पदपाठः

स॒सान॑ । अत्या॑न् । उ॒त । सूर्य॑म् । स॒सा॒न॒ । इन्द्रः॑ । स॒सा॒न॒ । पु॒रु॒ऽभोज॑सम् । गाम् ।
हि॒र॒ण्यय॑म् । उ॒त । भोग॑म् । स॒सा॒न॒ । ह॒त्वी । दस्यू॑न् । प्र । आर्य॑म् । वर्ण॑म् । आ॒व॒त् ॥

सायणभाष्यम्

पुर्वमन्ते प्रतिपादितः स इन्द्रोऽद्यानश्वान् ससान । युद्धार्थं मरुद्भ्यो ददौ । उत अपि च सूर्यं जगत्प्रकाशकमादित्यं ससान । प्राणिनां व्यवहारनिर्वाहय तेभ्यो ददौ । तथा पुरुभोजसम् । पुरुभिः सर्वैर्जनईः क्षीरादिद्वारेणोपभुज्यत इति पुरुभोजाः । क्शीरादिरूपबहुविधान्नोपेतां गामग्निहोत्रादिसिद्ध्यर्थं ससान । तेभ्यो ददौ । उत अपि च हिरण्ययं सुवर्नमयं भोगं धनम् । भुज्यतेऽस्मिन्निति भोगो गृहं वा । ससान । अर्थिभ्यो ददौ । ततो दस्यून् बाधकानसुरान् हत्वी हत्वार्यमुत्तमं वर्नं त्रैवर्णिकं प्रावत् । यथा कर्मविघ्नो नभवेत्तथापालयत् । ससान । षणु दान इत्यस्य लिति णलि रूपम् । लित्स्वरः । हिरण्ययम् । हिरण्यशब्दाद्विकार्थे मयड्वैतयोः । पा. ४-३-१४३ । इति विहितस्य छन्दसि विशय ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसिति निपातनान्मयटो मकारलोपः । प्रत्ययस्वरः । हत्वी । हन्तेःक्त्वार्थे स्नात्व्यादयश्चेति निपातितः । प्रत्ययस्वरः । आवत् । अवतेर्लङि रूपं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६