मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३४, ऋक् १०

संहिता

इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम् ।
बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनाम् ॥

पदपाठः

इन्द्रः॑ । ओष॑धीः । अ॒स॒नो॒त् । अहा॑नि । वन॒स्पती॑न् । अ॒स॒नो॒त् । अ॒न्तरि॑क्षम् ।
बि॒भेद॑ । व॒लम् । नु॒नु॒दे । विऽवा॑चः । अथ॑ । अ॒भ॒व॒त् । द॒मि॒ता । अ॒भिऽक्र॑तूनाम् ॥

सायणभाष्यम्

तादृश इन्द्र ओषधीः पक्वफलसंयुक्तास्तृणगुल्मादिका असनोत् । प्राणिनामुपभोगार्थं प्रादात् । तथाहानि दिवसांश्चायुप्परिक्लृप्त्यर्थं प्रायच्छत् । किञ्च वनस्पतीन्यज्ञार्थं खदिरपलाशादिलक्षणान् व्रुक्षानसनोत् । तथान्तरिक्शं सञ्चारार्थं प्रादात् । तथा वलम् । संव्रियतेऽनेनाकाशमिति वलो मेघः । तं मेघं बिभेद । उदकप्रेरणार्थमभिन्दत् । विवाचो विरुद्धवाचः प्रतिकूलानसुरान् नुनुदे । प्राणिनां रक्शार्थं तान् बबाधे । अथानन्तरमभिक्रतूनाम् । क्रतुः कर्म । अभि आभिमुख्येन युद्धार्थं कर्म येशां तेऽभिक्रतवो बलीयांसः शत्रवः । तेशामपि दमितोपशमयिताभवत् । एवं हितकरणाहितपरिहाराभ्यां सर्वाः प्रजाः पालयतिस्मेति भावः । असनोत् । षणु दान इत्यस्य लङि रुपम् । वनस्पतीन् । पारस्करप्रभृतित्वात् सुडागमः । वनशब्दो नब्विषयस्येत्याद्युदात्तः । पतिशब्दः प्रत्ययस्वरेणाद्युदात्तः । उभे वनस्पत्यादिशु युगपदित्युभयपदप्रकृतिस्वरत्वम् । बिभेद । भिदिर् विदारन इत्यस्य लिटि रूपम् । वाक्यभेदादनिघातः । प्रत्ययस्वरः । दमिता । दमु उपशम इत्यस्य तृचि रुपं चित्स्वरः अभिक्रतूनाम् । बहुव्रीहौ पूर्वपदस्वरः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६