मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३५, ऋक् १

संहिता

तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा॑ना या॒हि वा॒युर्न नि॒युतो॑ नो॒ अच्छ॑ ।
पिबा॒स्यन्धो॑ अ॒भिसृ॑ष्टो अ॒स्मे इन्द्र॒ स्वाहा॑ ररि॒मा ते॒ मदा॑य ॥

पदपाठः

तिष्ठ॑ । हरी॒ इति॑ । रथे॑ । आ । यु॒ज्यमा॑ना । या॒हि । वा॒युः । न । नि॒ऽयुतः॑ । नः॒ । अच्छ॑ ।
पिबा॑सि । अन्धः॑ । अ॒भिऽसृ॑ष्टः । अ॒स्मे इति॑ । इन्द्र॑ । स्वाहा॑ । र॒रि॒म । ते॒ । मदा॑य ॥

सायणभाष्यम्

विश्वामित्रः स्तौति । हे इन्द्र रथे स्यन्दने युज्यमाना संयुज्यमानौ हरी अश्वावभिलक्श्य कञ्चित्कालमा तिष्ठ । तत्र दृष्टान्तः । यायुर्नेति । यथा वायू रथे नियुज्यमानानियुतो वडवा अभिलक्श्य कञ्चित्कालं तिष्ठति तद्वत् । अथ रथारूधस्त्वं नोऽस्मानच्छाभिलक्ष्या याहि । शीघ्रमागच्छ । आगत्य चास्मे अस्माभिरभिसृष्टोऽनुज्ञातस्त्वमन्धः सोमलक्शणमन्नं पिबासि । पिब । स्वाहा । दत्तश्चायं सोमः । वयं ते तव मदाय हर्षाय स्वाहाकृतमिमं सोमं ररिम । ददाम । अत्र याहि वायुर्ननियुतो नो अच्छेत्यत्र रथेना याहीत्यर्थः । आपत्चित्पिप्युः स्तर्यो न गावः । ऋग्वे. ७-२३-४ । इत्यत्र तन्न तथेति पदकाले नोत्सृज्यते । तिष्ठ । तिष्ठतेर्लोटि रूपम् । तिष्ठादेशस्याद्युदात्तः । याहि । यातेर्लोटि रूपम् । हेर्ङित्वादन्तोदात्तः । वायुः । वा गतिगन्धनयोरित्यस्मात्कृवापेत्यादिना उण् । आतो युक् । प्रत्ययस्वरः । पिबासि । पातेर्लेट्याडागमः । आगमस्यानुदात्तत्वाद्धातुस्वरः । अन्धः । अद भक्षणे । अदेर्नुं धश्चेत्यसुन्नुमागमो धकारश्चान्तादेशः । अद्यते प्राणिभिस्त्वाद्वा स्वयमत्तीति । तथा च श्रुतिः । अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यते । तै. उ. २-२- । इति नित्स्वरः । अस्मे । सुपां सुलुगिति तृतीयायाः शे इत्यादेशः । ररिम । रातेर्लिटिरूपम् । वाक्यभेदादनिघतः । प्रत्ययस्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७