मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३५, ऋक् २

संहिता

उपा॑जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि ।
द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र॑म् ॥

पदपाठः

उप॑ । अ॒जि॒रा । पु॒रु॒ऽहू॒ताय॑ । सप्ती॒ इति॑ । हरी॒ इति॑ । रथ॑स्य । धूः॒ऽसु । आ । यु॒न॒ज्मि॒ ।
द्र॒वत् । यथा॑ । सम्ऽभृ॑तम् । वि॒श्वतः॑ । चि॒त् । उप॑ । इ॒मम् । य॒ज्ञम् । आ । व॒हा॒तः॒ । इन्द्र॑म् ॥

सायणभाष्यम्

हे इन्द्र पुरुहूताय पुरुभिर्बहुभिर्यजमानैर्यज्ञार्थमाहूताय तुभ्यमजिरा शीघ्रगमनशीलौ सप्ती सर्पणशीतौ हरी हरिनामकावश्वौ रथस्य धूर्षु युगप्रान्तेषूपा युनज्मि । अहं तथा योजयामि । द्रवत् स रथो यथा गच्छेत्तथेति शेषः । विश्वतश्चित् सर्वतः संभृतं अग्निर्यजुर्भिः सविता स्तोमैरित्यादियज्ञ संभारैः संपूर्णमिमं यज्ञं प्रतीन्द्रं त्वामुपा वहातः । तावश्वौ । सम्यगावहताम् । धूर्षु । धुर्वी हिंसर्धः । क्विप् । राल्लोप इति वकारलोपः व्रोरुपधाया इति दीर्घः । सावेकाच इति विघक्तेरुदात्तता । युनज्मि । युजिर् योगे । रुधादिः । लटि रूपम् । निघातः । द्रवत् । द्रु गतावित्यस्य छान्दसे लङि रुपम् । व्यत्ययेनान्तोदात्तत्वम् । वहातः । वहेर्लेट्याडागमे रूपं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७