मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३५, ऋक् ३

संहिता

उपो॑ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः ।
ग्रसे॑ता॒मश्वा॒ वि मु॑चे॒ह शोणा॑ दि॒वेदि॑वे स॒दृशी॑रद्धि धा॒नाः ॥

पदपाठः

उपो॒ इति॑ । न॒य॒स्व॒ । वृष॑णा । त॒पुः॒ऽपा । उ॒त । ई॒म् । अ॒व॒ । त्वम् । वृ॒ष॒भ॒ । स्व॒धा॒ऽवः॒ ।
ग्रसे॑ताम् । अश्वा॑ । वि । मु॒च॒ । इ॒ह । शोणा॑ । दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । अ॒द्धि॒ । धा॒नाः ॥

सायणभाष्यम्

वृषभ कामानां वर्षक स्वधावोऽन्नवन् हे इन्द्र वृषणा सेचनसमर्थौ त पुष्पा तापकेभ्यः शत्रुभ्यो रक्षकावश्वावुपो नयस्व । अस्मत्समीपं प्रापय । उत अपि च त्वमीमेनं यजमानमव । पालय । शोणा शोणवर्णौ तावश्वाविहास्मिन्देवयजने वि मुच । विमिक्तौ तावश्वौ ग्रसेताम् । विघसं भक्षयताम् । त्वं तु सदृशीरेकरूपान् धाना भृष्टयवान् दिवे दिवे प्रतिदिवसमद्धि । भक्षय । नयस्व । नयतेर्लोटि रूपम् । तपुष्पा । पा रक्शणे । आतोऽनुपसर्गे कः । सुपां सुलुगिति डादेशः । इसुसोः समर्थ्य इदि संहितायां विसर्जनीयस्य षत्वम् । कृदुत्तरपदप्रकृतिस्वरः । अव । अवतेर्लोटि रूपम् । स्वधावः । मतुवसोरिति नकारस्य रुत्वम् । निघातः । ग्रसेताम् । ग्रसु अदन इत्यस्य लोट्यातामि रुपम् । पादादित्वादनिघातः । आतामो लसार्वधातुकस्वरे धातुस्वरः । मुच । मुञ्चतेर्लोटि रूपम् । आगमानुशासनस्यानित्यत्वान्नुमभावः । सदृशीः । समान्सहब्द उपपदे दृशिर् प्रेक्षन इत्यस्मात्समानान्ययोश्चेति कञ्प्रत्ययः । समानस्य दृग्दृश्वतुष्विति सभावः । टिड्ढाणञ् इत्यादिना ङेप् । तस्य पित्त्वादनुदात्तत्वे धातुस्वरः । अद्भि । अद भक्षण इत्यस्य लोट्यदादित्वाच्छओप् लुक् । हुझल्भ्योहेर्धिरिति ध्यादेश । निघातः । धानाः । डुधाञ् धारनपोषणयोः । धापॄवस्यज्यतिभ्यो न इति नप्रत्ययः । प्रत्ययस्वरः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७