मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३५, ऋक् ४

संहिता

ब्रह्म॑णा ते ब्रह्म॒युजा॑ युनज्मि॒ हरी॒ सखा॑या सध॒माद॑ आ॒शू ।
स्थि॒रं रथं॑ सु॒खमि॑न्द्राधि॒तिष्ठ॑न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम॑म् ॥

पदपाठः

ब्रह्म॑णा । ते॒ । ब्र॒ह्म॒ऽयुजा॑ । यु॒न॒ज्मि॒ । हरी॒ इति॑ । सखा॑या । स॒ध॒ऽमादे॑ । आ॒शू इति॑ ।
स्थि॒रम् । रथ॑म् । सु॒खम् । इ॒न्द्र॒ । अ॒धि॒ऽतिष्ठ॑न् । प्र॒ऽजा॒नन् । वि॒द्वान् । उप॑ । या॒हि॒ । सोम॑म् ॥

सायणभाष्यम्

चातुर्विंशिकेऽहनि माध्यन्दिने सवने ब्राह्मणाच्छंसिशस्त्रे ब्रह्मणा त इत्यारंभणीया । सुत्रितं च । ब्रह्मणा ते ब्रह्मयुजा युनज्म्युरुं नो लोकमनुनेशि विद्वान् । आ. ७-४ । इति ॥

हे इन्द्र ब्रह्मयुजा ब्रह्मणा मन्त्रेण योक्तव्यौ सधमादे । माद्यन्ति योद्धारोऽत्रेति मादो युद्धम् । सहमादः सधमादः । तस्मिन्युद्धे सखाया समानपसिद्धी अत एवाशू क्षिप्रगमनोपेतौ ते तव हरी अश्वौ ब्रह्मणा स्तोत्रेण युनज्मि । रथे संयोजयामि । स्थिरं सुदृढं सुखं सुष्ठुद्वारं तादृशं रथमधितिष्ठन् आरूढस्त्वं सोमपानार्थमायाहि । प्रजानन्नित्याद्यगमत् । ब्रह्मयुजा । युजेरौणादिकः कर्मणि क्विप् । युनज्मि । युजेर्लिटिरूपम् । निघातः । सधमादे । मदी हर्षे । अधिकरणे घञ् । सध मादस्थयोश्छन्दसीति सहस्य सधादेशः । कृदुत्तरपदप्रकृतिस्वरः । रथम् । अधिशीङ् स्थासाम् कर्मेति कर्मसंज्ञा । सुखम् । खनु विदारणे । अन्येभ्योऽपि दृश्यत इति डः । कृदुत्तरपदस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७