मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३५, ऋक् ८

संहिता

इ॒मं नर॒ः पर्व॑ता॒स्तुभ्य॒माप॒ः समि॑न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् ।
तस्या॒गत्या॑ सु॒मना॑ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॒॑ अनु॒ स्वाः ॥

पदपाठः

इ॒मम् । नरः॑ । पर्व॑ताः । तुभ्य॑म् । आपः॑ । सम् । इ॒न्द्र॒ । गोभिः॑ । मधु॑ऽमन्तम् । अ॒क्र॒न् ।
तस्य॑ । आ॒ऽगत्य॑ । सु॒ऽमनाः॑ । ऋ॒ष्व॒ । पा॒हि॒ । प्र॒ऽजा॒नन् । वि॒द्वान् । प॒थ्याः॑ । अनु॑ । स्वाः ॥

सायणभाष्यम्

हे इन्द्र नरः कर्मणां नेतारोऽध्वय्वादयः पर्वता ग्रावाण आपश्चैते सर्व सम्भूय तुभ्यं त्वदर्थमिमं सोमं गोभिः पयोभिर्मधुमन्तं माधुर्योपेतं समक्रन् । सम्यगकार्षुः । ऋष्व दर्शनीय हे इन्द्र सुमन्सः शोभनमनस्को विद्वान्कर्माभिज्ञः स्वाः स्वकीयाः पथ्या वैदिके पथि कर्मणि साधुभूताः स्तुतीरनु प्रजानन् त्वं तस्य पाहि । इममभिषुतं सोमं पिब । अक्रन् । करोतेर्लुङि रूपम् । निघातः । आगत्य । गमेर्ल्यपि रूपम् । लित्स्वरः । पाहि । पातेर्लोटि रूपं ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८