मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३५, ऋक् ९

संहिता

याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते॑ ।
तेभि॑रे॒तं स॒जोषा॑ वावशा॒नो॒३॒॑ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ॥

पदपाठः

यान् । आ । अभ॑जः । म॒रुतः॑ । इ॒न्द्र॒ । सोमे॑ । ये । त्वाम् । अव॑र्धन् । अभ॑वन् । ग॒णः । ते॒ ।
तेभिः॑ । ए॒तम् । स॒ऽजोषाः॑ । वा॒व॒शा॒नः । अ॒ग्नेः । पि॒ब॒ । जि॒ह्वया॑ । सोम॑म् । इ॒न्द्र॒ ॥

सायणभाष्यम्

हे इन्द्र यान्मरुतः सोमे सोमपानविशय आभजः समभावयः ये च मरुतस्त्वामवर्धन् युद्धे प्रोत्साहोत्पादनेनावर्धयन् ये च मरुतस्ते तव गणोऽभवन् सहाया अभूवन्नित्यर्थः । हे इन्द्र एवं विधैस्तेभिस्तैर्मरुद्भिः सजोषाः सङ्गतः सन् एतमभिषुतं सोमं वावशानः कामयमानस्त्वमग्नेराहुत्यधिकरणभूतस्याहवनीयस्य ज्वालारुपाया जुह्वयेमं पिब । अभजः । भज सेवायामित्यस्य लङि रुपम् । यद्वृत्तयोगादनिघातः । अवर्धन् । वृधु वर्धन इत्यस्य ण्यन्तस्य लङि रुपम् । छन्दस्युभयथेति झेरार्धधातुकत्वाण्णेरनिटिति णिलोपः । अत्रापि यद्योगादनिघातः । अभवन् । वाक्यभेदादनिघातः । वावशानः । वह्स कान्तावित्यस्य यङ् लुकि चानशि रूपम् । चित्स्वरः । पिब । पा पाने । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८