मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३६, ऋक् ४

संहिता

म॒हाँ अम॑त्रो वृ॒जने॑ विर॒प्श्यु१॒॑ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ ।
नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा॑सो॒ हर्य॑श्व॒मम॑न्दन् ॥

पदपाठः

म॒हान् । अम॑त्रः । वृ॒जने॑ । वि॒ऽर॒प्शी । उ॒ग्रम् । शवः॑ । प॒त्य॒ते॒ । धृ॒ष्णु । ओजः॑ ।
न । अह॑ । वि॒व्या॒च॒ । पृ॒थि॒वी । च॒न । ए॒न॒म् । यत् । सोमा॑सः । हरि॑ऽअश्वम् । अम॑न्दन् ॥

सायणभाष्यम्

योऽयमिन्द्रो महानतिशयितसामर्थ्यवान् वृजने बलोपलक्षिते युद्धेऽमत्रः शत्रूणामभिभवितात एव विरष्ठी विरपणिशीलो भुजास्फालनेन हुद्धार्थं शत्रूणामाह्वानकारी । यद्वा विविधं रपणं स्तुतिलक्षणं यस्येति । स सर्वैः स्तुत्य इत्यर्थः । तादृशस्येन्द्रस्योग्रमुद्गूर्णं शवो बलं धृष्णु धर्षनशीलमोजः पराक्रमलक्शणं तेजः पत्यते । सर्वत्र प्रसरति । एनमेतादृशमहिमोपेतमिन्द्रं पृथिवी विस्तीर्णा भूमिर्नविव्याच । नव्याप्नोति । अहशब्द एवार्थे । चनेत्यप्यर्थे । द्यौरपि न व्याप्नोतीत्यर्थः । यद्यदा सोमासः स्वाहा कृता सोमा हर्यश्वमिन्द्रममन्दन् । आमादयन् । तदा तमेनं द्यावापृथिव्यौ वा प्युं न शक्नुत इत्यर्त्थः ॥ आमन्तः । आम गत्यादिषु । अमिनक्शियजीत्यादिनात्रन्प्रत्ययः । नित्स्वरः । विरप्शी । रप लप व्यक्तायां वाचि । औणादिकः शप्रत्ययः । विविधं रपन्तीति विरप्याः स्तोतारः । तेऽस्य सन्तीत्यत इनिः । यद्वा विविधं रपणं विरप्यम् । तदस्यास्तीति । प्रत्ययस्वरः । पथते । व्यत्ययेन कर्तरि यक् । निघातः । धृश्णु । ञिधृषा प्रागल्भ्ये । त्रसिगृधिधृषिक्षिपेः क्नुप्रत्ययः । रशाभ्यामिति णत्वम् । प्रत्ययस्वरः । विव्याच । व्यचेर्लिटि णलि लिट्यभ्यासस्योभयेषामित्यभ्यासस्य सम्प्रसारणम् । निघातः । चनेति निपातसमुदायश्चार्थे वर्तते । एवमादित्वादन्तोदात्तः । आमन्दन् । मदि स्तुत्यादिष्वित्यस्य लङे रूपम् । यद्योगादनिघातः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९