मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३६, ऋक् ५

संहिता

म॒हाँ उ॒ग्रो वा॑वृधे वी॒र्या॑य स॒माच॑क्रे वृष॒भः काव्ये॑न ।
इन्द्रो॒ भगो॑ वाज॒दा अ॑स्य॒ गाव॒ः प्र जा॑यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ॥

पदपाठः

म॒हान् । उ॒ग्रः । व॒वृ॒धे॒ । वी॒र्या॑य । स॒म्ऽआच॑क्रे । वृ॒ष॒भः । काव्ये॑न ।
इन्द्रः॑ । भगः॑ । वा॒ज॒ऽदाः । अ॒स्य॒ । गावः॑ । प्र । जा॒य॒न्ते॒ । दक्षि॑णाः । अ॒स्य॒ । पू॒र्वीः ॥

सायणभाष्यम्

महान्युद्धकर्मणि बलवानुग्रः शत्रूणां भयङ्कर इन्द्रो विर्याय विर्यकरनाय वावृधे । वर्धते । वृषभः फलस्याभिवर्षको भगः सर्वैर्भजनीयः स इन्द्रः काव्येन । कवयः स्तोतारः । तत्कर्म स्तोत्रम् । तेन स्तोत्रेण समाचक्रे । सङ्गच्छते । तादृशस्यास्येन्द्रस्य गावो वाजदाः क्शीरादिलक्षणान्नप्रदाः प्रजायन्ते । तथास्य पूर्वीर्बह्व्यस्ता गावो दक्शिणाः प्रजायन्ते । वावृधे । वर्धतेर्लिटि रूपम् । निघातः । वीर्याय । वीरे भवं वीर्यम् । भवे छन्दसीति यत् । वीरवीर्यौ चेत्यत्र यतोऽनाव इत्यस्यानित्यत्वस्य ज्ञापितत्वात्तित्स्वरितः । समाचक्रे । करोतेर्लिटि रूपम् । गतिर्गताविति पूर्वस्य गतेर्निघातः । काव्येन । कवेः कर्म काव्यम् । ब्राह्मणादित्वात् ष्यञ् । ञित्त्वादुपधावृद्धिः । ञित्स्वरः । वाजदाः । ददातेरातोऽनुपसर्गे कः जायन्ते । जनी प्रादुर्भाव इत्यस्य लटि रूपम् । दक्शिणाः । दक्शवृद्धावित्यस्मात् द्रुदक्शिभ्यामिनन्नितीनन्प्रत्ययः । नित्त्वादाद्युदात्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९