मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३६, ऋक् ६

संहिता

प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये॑व जग्मुः ।
अत॑श्चि॒दिन्द्र॒ः सद॑सो॒ वरी॑या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ॥

पदपाठः

प्र । यत् । सिन्ध॑वः । प्र॒ऽस॒वम् । यथा॑ । आय॑न् । आपः॑ । स॒मु॒द्रम् । र॒थ्या॑ऽइव । ज॒ग्मुः॒ ।
अतः॑ । चि॒त् । इन्द्रः॑ । सद॑सः । वरी॑यान् । यत् । ई॒म् । सोमः॑ । पृ॒णति॑ । दु॒ग्धः । अं॒शुः ॥

सायणभाष्यम्

सिन्धवो नद्यो यथा प्रसवम् । प्रकर्षेण सूयत इति प्रसवः कामः । तमनुसृत्य यद्यदा प्रायन् प्रकृष्टमतिदूरं समुद्रं गच्छन्ति तदापो महान्तं समुद्रं रथ्येव रथिन इव जग्मुः । प्रीणनार्थं गच्छन्ति । तद्वत् अतश्चित्सदसोऽस्मादप्यन्तरिक्षादसाविन्द्रो वरीयान् । उरुतरः खलु । यदीं यमेनमिन्द्रं दुद्ग्धोऽभिषुतोऽंशुर्लताखण्दरूपोऽल्पः सोमः पृणति प्रीणयति । यथाल्पा नद्योऽल्पीयांसि च जलानि महान्तं समुद्रं प्रीणयन्ति तद्वदल्पतरोंऽशुभुतः सोमो वरीयांसमिन्द्रं प्रीणयति ॥ प्रसवम् । सवतेः कर्मण्यप् । थाथादिस्वरः । आयन् । अयतेर्लङि रुपम् । यद्योगादनिघातः । रध्येव । रथेस्येमे रथ्याः । रथाद्यदिति यत् । सुपां सुलुगिति सुपो डादेशः । तित्स्वरितः । इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरः । जग्मुः । गमेर्लिटि रूपम् । गमहनेत्यादिनोपधालोपः । निघातः । वरीयान् उरुशब्दादीयसुनि प्रियस्थिरेत्यादिना वरादेशः । नित्त्वादाद्युदात्तः । पृणति । पृण प्रीणने । तुदादिः । यद्योगादनिघातः । दुग्धः । दुहेः क्तः । एकाच इतीट् प्रतिशेधः । दादेर्धातोर्घ इति हकारस्य घत्वम् । झषस्तथोर्धोऽधः । प्रत्ययस्वरः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०