मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३६, ऋक् ७

संहिता

स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा॑य॒ सोमं॒ सुषु॑तं॒ भर॑न्तः ।
अं॒शुं दु॑हन्ति ह॒स्तिनो॑ भ॒रित्रै॒र्मध्व॑ः पुनन्ति॒ धार॑या प॒वित्रै॑ः ॥

पदपाठः

स॒मु॒द्रेण॑ । सिन्ध॑वः । याद॑मानाः । इन्द्रा॑य । सोम॑म् । सुषु॑तम् । भर॑न्तः ।
अं॒शुम् । दु॒ह॒न्ति॒ । ह॒स्तिनः॑ । भ॒रित्रैः॑ । मध्वः॑ । पु॒न॒न्ति॒ । धार॑या । प॒वित्रैः॑ ॥

सायणभाष्यम्

समुद्रेण । सहिता नद्यादिरूपेणापोऽभिद्रवन्त्येनमिति समुद्रः । तेन यादमानास्तेन सह सङ्गतिं याचमानाः सिन्दह्वो नद्यो यथा तं पूरयन्ति तद्वद्धस्तिनो हस्तवन्तोऽध्वर्व्यादय इन्द्राय तुभ्यं सुषुतं सुष्ठ्वभिषुतं सोमं भरन्त । सम्पादयन्तोंशुं दुहन्ति । लताखण्डमभिषुण्वन्ति । तथा तेऽध्वर्व्यादयः स्रवतो रसस्य धारया पवित्रैः पावनैर्भरित्रैः । कर्मकरणार्थं पदार्थान्बिभ्रतिति भरित्रा बाहवः । तैर्मध्वो माधुर्योपेतान्सोमान्पुनन्ति । शोधयन्ति । समुद्रेण समुत्पूर्वाद्द्रवतेरन्येभ्योऽपि दृश्यत इति डः । डित्त्वाट्टिलोपः । यद्वा । उन्दी क्लेदने । संपूर्वस्य स्फायुतञ्चीत्यादिना रक् । कित्त्वादुपधालोपः । उभयत्र प्रत्ययस्वरः । सुपा सहैकादेशे कृत एकादेश उदात्त एव । यादनाना । टु याचृ याज्ञायाम् । शानच् । व्यत्ययेन चकारस्य दकारः । शानचो लसार्वधातुकस्वरे धातुस्वरः । दुहन्ति । दुह प्रपूरण इत्यस्य लटिरूपम् । भरित्रैः । डुभृञ् धारण पोषणयोरित्यस्मादशित्रादिभ्य इत्रोत्रावितीत्रप्रत्ययः । प्रत्ययस्वरः । पुनन्ति । पूञ् पवन इत्यस्य लटि रूपम् । ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०