मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् १

संहिता

वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च ।
इन्द्र॒ त्वा व॑र्तयामसि ॥

पदपाठः

वार्त्र॑ऽहत्याय । शव॑से । पृ॒त॒ना॒ऽसह्या॑य । च॒ ।
इन्द्र॑ । त्वा॒ । आ । व॒र्त॒या॒म॒सि॒ ॥

सायणभाष्यम्

विश्वामित्रः स्तौति । हे इन्द्र वार्त्रहत्याय वृत्रहनननिमित्ताय शवसे बलायापि च प्?ऋतनासाह्याय परकीयसेनाभिभवाय त्वामा सर्वतो वर्तयामसि । प्रवर्तयामः । वार्त्रहत्याय । वृत्रघ्नः कर्मेत्यर्थे ब्राह्मणादित्वात् ष्यञ् । हनस्तोऽचिण्णलोः । पा. ७-३-३२ ॥ इति तकारः । ञित्त्वादाद्युदात्तः । पृतनाषाह्याय । षह मर्षण इत्यस्माद्भावे शकिसहोश्चेति यत् । संहितायां सहेः पृतनर्ताभ्यां च । पा. ८-३-१-९ । इति षत्वम् । दीर्घश्छान्दसः । वर्तयामसि । वृतु वर्तन इत्यस्य ण्यन्तस्य मस इदन्तो मसिरिति मसि इत्यादेशः । निघातः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१