मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् ३

संहिता

नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे ।
इन्द्रा॑भिमाति॒षाह्ये॑ ॥

पदपाठः

नामा॑नि । ते॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । विश्वा॑भिः । गीः॒ऽभिः । ई॒म॒हे॒ ।
इन्द्र॑ । अ॒भि॒मा॒ति॒ऽसह्ये॑ ॥

सायणभाष्यम्

शतक्रतो हे इन्द्र अभिमातिषाह्ये । मातिर्मानो गर्वः । आभितो मानो येषां तेऽभिमातयः शत्रवः । तेषां सहनमेव सह्यम् । तस्मिन्युद्धेऽस्माकमुपस्थिते सति ते तव नामानि शक्रवज्रहस्तादीनि नामधेयानि । यद्वा । तदुपलक्षितानि बलानि विश्वाभिरीर्घिः सर्वाभिः स्तुतिलक्षणाभिर्वग्भिरीमहे । वयं याचामहे ॥ ईमहे । ई कान्त्यादिषु । व्यत्ययेनात्मने पदम् । अदादित्वाच्छपो लुक् । निघातः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१