मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् ४

संहिता

पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि ।
इन्द्र॑स्य चर्षणी॒धृतः॑ ॥

पदपाठः

पु॒रु॒ऽस्तु॒तस्य॑ । धाम॑ऽभिः । श॒तेन॑ । म॒ह॒या॒म॒सि॒ ।
इन्द्र॑स्य । च॒र्ष॒णि॒ऽधृतः॑ ॥

सायणभाष्यम्

हे इन्द्र पुरुष्टुतस्य पुरुभिर्बहुभिः स्तोतृभिः स्तुतस्य शतेनापरिमितसंख्याकैर्धामभिस्तेजोभिर्युक्तस्य चर्षणीधृतश्चर्षणीनां मनुश्याणां कर्मानुष्ठातॄणामभिमतफलसंपादनेन धारकस्येन्द्रस्य । यद्वा । आकृषन्ति सर्वमनेनेति चर्शणि बलम् । तद्धारकस्य तव महयामसि । स्तोत्रं कुर्मः । पुरुष्टुतस्य । ष्वुञ् स्तुतौ । कर्मणि क्तः । थाथादिस्वरः । सम्हितायां स्तुतस्तोमयोश्छन्दसीति षत्वम् । महयामसि । मह पूजायामित्यस्य लटीदन्तो मसिः । निघातः । चर्षणीधृतः । कृष आकर्षणे । कृषेरादेश्च चः । उ. २-१०५ । इत्यनिप्रत्ययः । ककारस्य चकारादेशः । यद्वा । कृष विलेखने । कर्षन्तीति चर्षणयो मनुश्याः । धृ धारणे । क्विप् । कृदुत्तरपदस्वरः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१