मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् ५

संहिता

इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे ।
भरे॑षु॒ वाज॑सातये ॥

पदपाठः

इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । पु॒रु॒ऽहू॒तम् । उप॑ । ब्रु॒वे॒ ।
भरे॑षु । वाज॑ऽसातये ॥

सायणभाष्यम्

हे इन्द्र वृत्रा यन्तवे वृत्रनामकमसुरं हन्तुं भरेषु युद्धेषु वाजसातयेऽन्नोपलक्शितधनलाभाय च पुरुहूतं पुरुभिराहूतमिन्द्रं बलवन्तं त्वामुपब्रुवे । सोमपानार्थं विश्वामित्रोऽहमाह्वयामि । वृत्राय । क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानम् । हन्तवे । यन्तेस्तुमर्थे तवेन्प्रत्ययः । नित्स्वरः । ब्रुवे । ब्रूञ् व्यक्तायां वाचीत्यस्य लङ्युत्तम इटि रूपम् । निघातः । वाजसातये । सननं सातिः । वाजस्य सातिर्वाजसातिः । दासीभारादित्वात्पुर्वपदप्रकृतिस्वरः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१