मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् ६

संहिता

वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो ।
इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ॥

पदपाठः

वाजे॑षु । स॒स॒हिः । भ॒व॒ । त्वाम् । ई॒म॒हे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
इन्द्र॑ । वृ॒त्राय॑ । हन्त॑वे ॥

सायणभाष्यम्

शतक्रतो हे इन्द्र वाजेषु सङ्ग्रामेशु सासहिः शत्रूणामभिभविता भव । वृत्राय हन्तवे वृत्रं हन्तुं त्वामीमहे । प्रार्थयामहे । सासहिः । सहिवहिचलिपतिभ्यो यङन्तेभ्यः किकिनौ वक्तव्याविति किप्रत्ययः । तस्य स्वरः । वृत्राय । कर्मणः । सम्प्रदानम् । हन्तवे । तुमर्थे तवेन्प्रत्ययः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२