मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् ७

संहिता

द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृत्सु॒तूर्षु॒ श्रव॑स्सु च ।
इन्द्र॒ साक्ष्वा॒भिमा॑तिषु ॥

पदपाठः

द्यु॒म्नेषु॑ । पृ॒त॒नाज्ये॑ । पृ॒त्सु॒तूर्षु॑ । श्रवः॑ऽसु । च॒ ।
इन्द्र॑ । साक्ष्व॑ । अ॒भिऽमा॑तिषु ॥

सायणभाष्यम्

हे इन्द्र द्युम्नेषु द्योतमानेषु धनेषु प्राप्तव्येष्वभिमानिनो ये सपत्नाः पृतनाज्ये । पृतनानामजनं गमनं यस्मिन्निति पृतनाज्यं सङ्ग्रामः । तस्मिन्सङ्ग्रामे च पृत्सुतूर्षु पृतनासु तरण शीलेषु शूरेषु श्रवः सु बलेषु च येऽभिमानिनः सपत्नाः सन्ति तान् साक्ष्व । अभिभव । तथाभिमातिषु सर्वतो गर्वयुक्तेषु शत्रुषु पुरुशेषु ये सपत्नाः तांश्चाभिभव । पृतनाज्ये । अज गतिक्षेपणयोरित्यस्य ण्यन्तस्य अचो यत् । पृतनानामाज्यं पृतनाज्यम् । एकादेशस्वरः । ञित्वरा सम्भ्रमे । ताच्छीलिकः क्विप् । ज्वरत्वरेत्यादिना ऊट् । तत्पुरुषे कृति बहुलमिति पूर्वपदस्य सप्तम्या अलुक् । क्रुदुत्तरपदस्वरः । साक्श्व । सह मर्षण इत्यस्य लोटि बहुलं छन्दसीति शपो लुक् । ढत्वकत्वे दीर्घश्छान्दसः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२