मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् ८

संहिता

शु॒ष्मिन्त॑मं न ऊ॒तये॑ द्यु॒म्निनं॑ पाहि॒ जागृ॑विम् ।
इन्द्र॒ सोमं॑ शतक्रतो ॥

पदपाठः

शु॒ष्मिन्ऽत॑मम् । न । ऊ॒तये॑ । द्यु॒म्निन॑म् । पा॒हि॒ । जागृ॑विम् ।
इन्द्र॑ । सोम॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ॥

सायणभाष्यम्

शतक्रतो हे इन्द्र शुष्मिन्तमं बलवतां मध्येऽतिशयेन बलवन्तं द्युम्निनं दीप्तिमन्तम् । यद्वा शुष्मिन्तमं शत्रूणां शोषकतमं द्युम्निनं यशस्विनं जागृविं जागरणशीलम् । पीतः सोमो जागृविः स्वप्ननिवारक इति । तादृशं नोऽस्माकं सम्बन्धिनं सोममूतयेऽस्माकं रक्षणाय पाहि । अत्रागत्य पिब । शुष्मिन्तमम् । तमपः पित्त्वादनुदात्तत्वे प्रत्ययस्वरः । पाहि । पातेर्लोटि बहुलं छन्दसीति शपो लुक् । निघातः । जागृविः । क्विन्प्रत्ययान्तः । नित्त्वादद्युदात्तः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२