मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३७, ऋक् ९

संहिता

इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने॑षु प॒ञ्चसु॑ ।
इन्द्र॒ तानि॑ त॒ आ वृ॑णे ॥

पदपाठः

इ॒न्द्रि॒याणि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । या । ते॒ । जने॑षु । प॒ञ्चऽसु॑ ।
इन्द्र॑ । तानि॑ । ते॒ । आ । वृ॒णे॒ ॥

सायणभाष्यम्

शतक्रतो हे इन्द्र ते तव सम्बन्धिषु पञ्चसु जनेषु गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येषु या यानीन्द्रियाणि रूपग्रहणाइद्सामर्थ्यानि स्थितानि ते त्वदीयानि तानीन्द्रियाण्यहमा वृणे । सम्भजे । यद्वा । पञ्चजनेषु निषादपञ्चमेशु चतुर्षु जनेषु यानीन्द्रियाणि सामर्थ्यानि तानि त्वदीयान्यहमा वृणे । इन्द्रियाणि । इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वेति घच् प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । वृणे । वृङ् सम्भक्तावित्यस्य लटि रूपम् । निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२