मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ३८, ऋक् ३

संहिता

नि षी॒मिदत्र॒ गुह्या॒ दधा॑ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम॑ञ्जन् ।
सं मात्रा॑भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ॥

पदपाठः

नि । सी॒म् । इत् । अत्र॑ । गुह्या॑ । दधा॑नाः । उ॒त । क्ष॒त्राय॑ । रोद॑सी॒ इति॑ । सम् । अ॒ञ्ज॒न् ।
सम् । मात्रा॑भिः । म॒मि॒रे । ये॒मुः । उ॒र्वी इति॑ । अ॒न्तः । म॒ही इति॑ । समृ॑ते॒ इति॒ सम्ऽऋ॑ते । धाय॑से । धु॒रिति॑ धुः ॥

सायणभाष्यम्

अत्र भूलोके गुह्या गूढानि कर्माणि सीमित् सर्वत एव निदधानाः कुर्वाणा एते कवय उत अपि च क्शत्राय बलाय धनाय वा रोदसी द्यावापृथिवौ । समञ्जन् । ओषधीभिः पृथिवीं देवैश्च दिवं सङ्गतामकार्षुः । किञ्च ते मात्राभिः । मीयन्ते मान्तिति वा मात्राः शिलोच्चायाः ताभिर्मात्राभिः संममिरे । ते रोदस्यावियत्तया परिच्छिन्ने चक्रुश्च । समृते परस्परं सङ्गते उर्वी विस्तीर्णे मही महतौ ते द्यापृथिव्यौ येमुः । नियमितवन्तः । विश्टंभकेनान्तरिक्षेणान्तरुदयच्छन् । तथा धायसे तयोर्धारनार्थमन्तरिक्षं धुः व्यधुः । इदवधारणार्थे । गुह्या । गुहायां भवानि । भवार्थे यत् । यतोऽनाव इत्याद्युदात्तः । दधानाः । दधातेः शानचि रूपम् । अभ्यस्तस्वरः । अञ्जन् । अन्जू व्यक्तिम्रक्षणगतिष्वित्यस्य लङि श्नसोरल्लोपः । निघातः । मात्राभिः । मा नाने माङ् माने वा । हुयामेत्यादिना त्रन्प्रत्ययः । नित्स्वरः । ममिरे । माङ् मान इत्यस्य लिटि रूपम् । चादिलोपे विभाषेति न निघातः । येमुः । यम उपरम इत्यस्य लिट्युसि रूपम् । तिङुत्तरत्वादनिघातः । धायसे । वहिहाधाञ्भ्यश्छन्दसीत्यसुन् । नित्स्वरः । धुः । दधातेरुङि रूपं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३